________________
१४
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
करिणीवद् वारिहर्त्यः, कुम्भमण्डितमस्तकाः । उच्चहस्ता(स्ताः) सदाश्यामा(मा?), मन्दसंचरणप्रियाः ॥३९।। यत्राऽऽपणतती रेजे, संकीर्णा सत्क्रयाणकैः । जङ्गमा कल्पवल्लीव, व्यवसायविधायिनाम् ॥४०॥ दातारः सुलभा यत्र, कृपणा दुर्लभास्तथा । पुरे यल्लभ्यते सर्वं, लोकोक्तिः सा तु निःफला ॥४१॥ इभ्या यत्र पुरे नित्यं, कमलाबद्धमानसाः । मत्ताश्च षट्पदा यत्र, कमलाबद्धमानसाः ॥४२।। उदारा दानिनो यत्र, कृतोन्नतकराः सदा । मदोद्धता गजा यत्र, कृतोन्नतकराः सदा ॥४३॥ चान्दनास्तरवो यत्र, भुजङ्गगणसंश्रिताः । सुरूपाः पण्यवनिता, भुजङ्गगणसंश्रिताः ॥४४॥ माहेश्वरा जना यत्र, शिवसंबद्धमानसाः । श्रद्धालवः शुभाचाराः, शिवसंबद्धमानसाः ॥४५॥ अशोका यत्र मोदन्ते, योषिच्चरणताडिताः । कामिनो विह्वला नित्यं, योषिच्चरणताडिताः ॥४६॥ विष्णुधर्मरताः सर्वे-ऽजिनभक्तिपरायणाः ।। सम्यक्त्वधारिणः श्राद्धा, जिनभक्तिपरायणाः ॥४७॥ भित्तिरुच्चस्तनी यत्रा-ऽवरोधे च नृपाङ्गना । असूर्यम्पश्याऽदृष्टान्य-नरा नित्यं विराजते ॥४८॥ लङ्का शङ्काकुला जाता, चम्पा कम्पमवाप्नुयात् । अपतद्वारका वार्डों, शिवपुर्याः पुरः सदा ॥४९॥ इत्यादिगुणयुक्तायां, मुक्तायां दुष्टमानवैः । पुर्यां श्रीशिवसंज्ञायां, ख्यातायां जगतीतले ॥५०॥
॥ अथ श्रीभुजनगरवर्णनम् ॥ दीर्घकूर्चा जना यत्र, मालका इव पक्षिणाम् । यत्र लम्बालका बाला, कुमार्यो बहुवत्सराः ॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org