________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
किञ्चाऽत्रत्या अपि च, प्राज्ञाः कनकादिविजयनामानः । गणयश्च ऋद्धिविजया, गणयो मेर्वादिविजयाश्च ।।८।। लब्धिविजयगणयो गणि-दयादिविजयश्च मुक्तिविजयगणिः । भक्तिविजयगणिनामा, नयादिविजय-हर्षविजयगणी ॥८२॥ मुनयश्च धीरविजया, मुनी तथा सत्यविजय-सुखविजयौ । क्षेमविजयमुनिनामा, तेजविजयोदयविजयमुनी ॥८३।। सौभाग्यश्रीः साध्वी, साध्वीवृद्धा तथा च राजश्रीः । सुमतिश्रीरिति साध्वी, कनकश्रीनामसाध्वी च ॥८४।। इत्येवं यतियतिनी-समुदायोऽत्रत्यसकलसङ्घश्च । श्रीतातचरणचरणा-म्बुरुहयुगं नमीति मुदा ।।८५।। किञ्च शिशूचितकृत्यं, प्रसादनीयं प्रसादमाधाय । पार्वणशशधरसुन्दर-वदनैः श्रीतातचरणवरैः ॥८६।। श्रीतातचरणनाम्ना-ऽत्रत्याः श्रीजिनवराः प्रणम्यन्ते । तन्नतिसमये तातैः, शिशुलेशश्चेतसि विधेयः ॥८७।। लेखं लिखता मयका, यदिह झूणं लिपीकृतं भवति । तत् सर्वं क्षन्तव्यं, श्रीमत्तातैः प्रसादपरैः ।।८८।। कोशीकृतकरकमलो, भूमितलन्यस्तमस्तकः सततम् । शिष्याणुमेरुविजयो, विशेषतो नमति सद्भक्त्या ॥८९।। विज्ञप्तिपत्री विलसत्कनीयं, श्रीतातपाणिग्रहणाभिलाषा । विशुद्धवर्णादियुताऽस्ति तस्मात्, फलान्विता स्याच्च तथाऽवधार्यम् ॥१०॥
[उपजाति:] मार्गशीर्षसिते पक्षे, पूर्णिमायां लसत्तिथौ । मया सद्भक्तियुक्तेन, लेखोऽलेखीति मङ्गलम् ॥११॥ श्रीः ॥ [अनुष्टुप्]
[बहारना भागे-] योधपुरनगरात् पं. लावण्यविजय ग. लेख ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org