________________
जान्युआरी - २०१३
गतसकलविषादानां, स्वसेवकप्रत्तसुप्रसादानाम् । सजलाम्बुदनादानां, श्रीमच्छीतातपादानाम् ॥६९।। कोऽपि प्रसादवरलेखनवाम्बुदोऽथ, संप्रीणयिष्यति मदीयमनोमयूरम् । ते नाथ! सस्वकशरीरपरिच्छदोद्य-न्नीरोगतादिसदुदन्तजलाभिरामः ॥७०।।
[वसन्त०] सद्यः प्रसद्य निजशिष्यमनोमयूर-प्रौढप्रमोदविधये सततं प्रसाद्यः । किंचोपवैणवमथ प्रणतिर्मदीया, श्रीयुक्ततातचरणैरवधारणीया ॥७१॥ गाम्भीर्यौदार्यधैर्याद्यनणुगुणमणीरोहणक्ष्माधरेन्द्रान्, प्रेङ्घत्पीयूषयूषानुकरणनिपुणप्रौढवाणीविलासान् । प्रादुर्भूतप्रभूतप्रवरतरपटुप्रोल्लसद्भक्तियुक्त्या, वन्दे विश्वप्रतीक्ष्यान् भुवनजनहितान् श्रीमदाचार्यसिंहान् ॥७२।। [स्रग्धरा] निश्शेषवाङ्मयार्णव-पारंगमिनः प्रशस्तमतिविभवाः । श्रीमद्धनविजयाा, वाचककुलमौलिसन्मणयः ॥७३॥ [आर्या] जैनप्रमाणसधुक्ति-तर्जितानेकवादिनः । । श्रीऋद्धिविजयाह्वानाः, प्राज्ञाः सद्गुद्धिऋद्धयः ।।७४।। [अनुष्टुप्] उदयश्रीपरिरम्भण-निपुणः श्रीउदयविजयवरविज्ञाः । शमरसभावितचित्ता, विबुधाः श्रीशान्तिविजयाश्च ॥७५॥ [आर्या] कर्पूरविजयविबुधाः, सुयशःकर्पूरवासितदिगन्ताः । वैराग्यरञ्जितान्त:-करणा रामादिविजयबुधाः ॥७६॥ वाचस्पतिसममतयो, मत्यादिमविजयनामवरविबुधाः । नयविजयनामधेया, विपश्चित: परमनयनिपुणाः ॥७७।। यतिजनपोषणदक्षाः, कृष्णाद्विजयाभिधानवरविज्ञाः । सुविनीतशिरोमणयो, विनीतविजयाश्च विद्वांसः ॥७८।। श्रीपूज्यचरणसेवा-रसिका अमरादिविजयवरसुधियः । यतिजनशिक्षादक्षा, विचक्षणा वीरविजयाश्च ॥७९।। इत्यादिसाधुसाध्वी-प्रमुखाणां तातचरणभक्तानाम् । नत्यनुनती प्रसाद्ये, श्रीमत्तातैः प्रसादपरैः ।।८०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org