________________
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
अनन्तज्ञानमाहात्म्य-प्रकाशितजगत्त्रय! । जगन्नाथ! जिनाधीश!, तुभ्यं भगवते नमः ॥२॥ कल्याणकमलाकेलि-निलयं जिनचन्दिरम् । प्रेक्ष्य प्रीतिपदं प्रापुः, सत्कैरवपरम्पराः ॥३।। आनम्रामरभूपाल-भूपालस्मितलोचना(नाः) । गुणान् गायन्ति ते देव!, गाम्भीर्यक्षीरनीरधे! ॥४॥ इत्थं स्तुतः सदानन्द-कन्दवृन्दनवाम्बुदः । स्तुतो विजयसेनाह्व-प्रसादान्मृगलक्षणः ॥५॥
कलाकलापकुशलं, कल्याण(णा)मलदीधितिम् । नत्वा विजयसेनाहूं, संस्तुवे शाम्भवं जिनम् ॥१॥ (अनुष्टुप्) यदीयवदनाम्भोज-प्रभाभिय॑क्कृतो जगौ । इन्दुर्गगनगङ्गायां, झम्पां दातुं स लज्जितः ॥२॥ कीर्तिकीयुत्करोद्गीर्ण-हस्तिमल्लसमो जिनः । पिनष्टु दुष्टकष्ट(ष्टानां), श्रेणि भूमण्डले सताम् ॥३॥ नमामि जिनराजेन्द्र, राजिराजीवराजिवत् । बिभ्राणं पञ्चशाखं तं, कोमलं कमलालयम् ॥४॥ इति स्तुतो जिनाधीशः, प्रचण्डोद्दण्डविक्रमः । गुरोविजयसेना(सेनस्य), प्रसादात् शम्भवो विभुः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org