________________
जान्युआरी - २०१३
श्रीशम्भवो जिनवरो वृषभः स पायात्, शश्वत् सतां विजयसेनगुरुप्रसादात् ॥९॥ [वसन्त०]
॥ इति स्तवनम् ॥
(५) आनम्य पादकमलं विमलं गुरूणा
मानन्दकन्दनववारिददीप्तिदीप्तम् । शान्ति प्रशान्तहृदयं सदयं स्तवीमि,
संसारसागरपतज्जनयानपात्रम् ॥१॥ [वसन्त०] पादारविन्दयुगलं भवदीयमेनं,
यः सेवते प्रतिदिनं प्रकटप्रभावम् । हर्षप्रकर्षपुलकाङ्कितकान्तकायः,
श्रेयःश्रियं स लभतेऽत्र किमस्ति चित्रम् ॥२॥ कन्दर्पदर्पप्रतिपक्षपक्ष
स्तम्बेर[मा] डम्बरपञ्चवक्त्र! । जगज्जनानन्दन! हे सुरे! को,
भूयात् सतां पारगतस(गमनस्य) सिद्ध्यै ॥३॥ [उपजातिः] धामाभिरामनवधामसुधामरीचि
न्यक्कारिकीर्तिकमलाविमलालयो वः ।। पुष्णातु पुण्यपदवीं प्रकटप्रताप
मार्तण्डमण्डलकलाकुशलो जिनेन्द्रः ॥४॥ [वसन्त०] इति विजयसेनसूरेः, पादपयोजप्रसादतो नीतः ।
स्तुतिगोचरतां शान्तिः, शान्तितति दिशतु शान्तमनाः ॥५॥ [आर्या]
सुवर्णवर्ण्यसौवर्ण-सवर्णनववर्णकम् । गुरुं प्रणम्य श्रीशान्ति, संस्तुवे शान्तिसागरम् ॥१॥ (अनुष्टुप्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org