________________
८०
अनुसन्धान-६० : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड १
मोदामन्दनवेन्दुमण्डलमुखीपौरन्दरीसुन्दरी
श्रेणीवन्दितपादपद्मयुगलं श्रीदेवराजं मुदा । तं वन्दे वदनं विलोक्य सुधियः सन्तर्कयन्तीति किं,
सम्मोदादुपढौकअ(य?)ज्जिनपते! कल्लोलिनीवल्लभः ॥५॥ [शार्दूल०] पूर्णापूर्णशशाङ्कमण्डललसल्लक्ष्मीकलापेशलं, ___लोकालोकगतं यशःपरिकरं श्रुत्वैति यस्येशितुः । सिद्बामनि गीतमाशु मिलितुं तं विस्मयादागतः, ___ कर्पूरप्रकरप्रभापरिणि(ण)तं डिण्डीरप(पि)ण्डं स्फुटम् ॥६॥युगलम्।। कलाकेलिलीलोक(त्क)लापोच्छलद्वालकल्पान्तकालानिलोच्छालितोत्ताललोलोल्ललव्यालकल्लोलमालाकुलीभूतच(न)क्रादिचक्रादिभिर्भीषणीभूतकल्लोलिनीवल्लभान्तर्निमज्जज्जनश्रेणिमुद्धर्तुमाबद्धशुद्धाभियोगः, प्रतापप्रकारप्रभासम्भराक्रान्तसङ्क्रान्तदुईण्डमार्तण्डचण्डातिशायिस्फुरन्मण्डलोद्यच्चमत्कारकार्युत्पुराचि(चि?)प्रचारोदयो दप्कन्दर्पसर्पप्रसर्पत्परी स्फोटनस्पष्टदुष्टद्विजिह्वद्विषत्सोदरश्रीः । मदोन्मत्तदुर्वादसन्दोहदुर्वादिवृन्दश्रवन्तीपतित्रस्तसारङ्गसीमन्तिनीलोचनाप्राणराड्मेखलाभृद्भरभ्रंशजाग्रत्स्फुलिङ्गस्फुरत्स्फारसारैकसारप्रसारज्वलद्वज्रसाधारणावारपारप्रसूता पटिष्ठसदानन्दसन्दोहकन्दैकवृन्दाम्बुदों(दो) देवदेवं स देयादमन्दं महानन्ददीप्रास्पदं सर्वदं सर्वदा सम्पदादायकं स्वीयपादारविन्दद्वयानिन्द्यशोभापराभूतराजीवराजीरुचां सञ्चयः सज्जनानां जनानाम् ॥७॥ [दण्डकजातिः] अमरपतिकरीन्द्रस्फारहाराभिराम
त्रिदिवसदनगङ्गागौरकीर्तिप्रतानः । जयतु जिनवरेन्द्रः पुण्यपुण्याब्धिचन्द्रः,
प्रणतनरवरेन्द्रः सान्द्रमुद्रासमुद्रः ॥८॥ [मालिनी] इत्थं स्तुतः सकललोककलाकलाप
राजीवराजिरमणीयपयोजपाणिः ।
१. पङ्क्तावस्यामक्षरत्रयं न्यूनं प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org