________________ 48 अनुसन्धान-५९ दृष्टान्तोपन्यासापत्तिः स्यात् / तत्राऽप्ययमेव वृत्तान्त इत्यपर्यन्ताऽनवस्था स्यात् / अथ स्वत एव खरविषाणस्याऽभावसिद्धिः, तर्हि तद्वत् सर्वज्ञस्याऽपि सा भविष्यति इति किमनर्थमूलेन दृष्टान्तोपन्यासेनेति / तदेवं प्रत्यवयवं विचार्यमाणं साधनं जीर्णकुटीरकमिव विशीर्यते इत्युपेक्षामर्हति / __किञ्च किं भवत एव तद्ग्राहकप्रमाणाभावः ? किंवा सर्वेषां प्रमातृणामिति विकल्पद्वयं भीमार्जुनद्वयमिव प्रतिपक्षविक्षोभदक्षमुपतिष्ठते / यदि भवतः, सिद्धं साध्यते, भवतो महामोहान्ध्याभिभूतत्वाद्, यद्वचनाच्च तदपनोदो भवति, तस्य च भगवतः सर्वज्ञस्याऽनभ्युपगमात् / अथ सर्वेषाम् / तदसिद्धम् / तस्य ह्येतद् वक्तुं युज्यते, यस्य भुवनोदरान्तर्वतिप्राणिपरिषच्चेतोवृत्तिः प्रत्यक्षा भवति / न भवतः, तत्प्रत्यक्षीकरणे च तवैव सर्वज्ञताप्राप्तेरिति सिद्धं नः समीहितम् / य एव राधावेधं विधत्ते स एवाऽर्जुन इति न्यायात् / अथाऽनुमानान्तरं संगीर्यते / यो यः पुरुषः, स स सर्वज्ञो न भवति, पुरुषत्वादस्मदादिवत् / इत्येतदपि महानदीस्रोतोऽन्तः प्रवहतः कुशकाशावलम्बनप्रायम् / पुरुषत्वस्यैकान्तेनाऽस्मदादिसादृश्यसाधकत्वानुपपत्तेः / तथाहि - पुरुषत्वाविशेषेऽपि मूर्खविपश्चिदादिभेदाः संलक्ष्यन्ते, तद्वत् कश्चित् सर्वज्ञोऽपि भविष्यति इति / __ अथ विकल्पाभ्यां प्रत्यवतिष्ठेथाः / स सर्वं जानन् किमिन्द्रियद्वारेण जानाति, तदन्तरेण वा ? आद्यपक्षेऽक्षाणां सन्निहितार्थग्राहित्वात् मन्दरमकराकरादीनां च व्यवहितत्वात् तदज्ञाने सर्वज्ञत्वहानिरदृष्टमुद्गराघातकल्पा स्यात् / द्वितीये चाऽन्धबधिरादीनामपि सर्वज्ञत्वप्राप्तिरिति / एतदपि अनभ्युपगमवज्रप्रपातदलितमस्तकतया नोत्थातुमुत्सहते, तस्याऽतीन्द्रियज्ञानाभ्युपगमात् / __ अथ यो यः पुरुषः तस्य तस्याऽतीन्द्रियं ज्ञानं नाऽस्ति पुरुषत्वादस्मदादेरिवेति चेत् ? तर्हि तावकीनाऽनुमानेन किमिदानीं तदभावः साध्यते किं वा कालत्रयेऽपीति दन्तिदन्तद्वयमिवाऽमलं विकल्पद्वितयमापतति / यद्यधुना, सिद्धं साध्यते / कालत्रये चाऽसिद्धं, कालत्रयस्याऽप्रत्यक्षत्वात् कस्मिंश्चित् काले तथाभूत