SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ जून - 2012 स्याऽपि सम्भवात् / अथ यो यः कालः, स सोऽतीन्द्रियज्ञानवत्शून्यः, कालत्वात्, इदानीन्तनकालवदित्यनुमानेन प्रत्यवस्थानं कुर्वीथाः; तहि यो यः कालः, स स त्वत्पितामहादिशून्यः, कालत्वात्, इदानीन्तनकालवदिति नाऽस्माकमपि शठोत्तरमतिदुर्लभं स्यादित्यनिष्टप्राप्तिः / अभ्युपगमे च भवतो निर्हेतुकं जन्म स्यात् / अथैवं पर्यनुयुञ्जीथाः / किमेते भावा इन्द्रियज्ञानग्राह्यस्वभावा उताऽतीन्द्रियज्ञानग्राह्यस्वभावाः ? आद्ये पक्षे प्रतिज्ञाक्षतिर्भवद्विवक्षितस्याऽसर्वज्ञत्वप्राप्तिः, तस्याऽतीन्द्रियार्थज्ञातृत्वेनाऽभ्युपगमात् / द्वितीये च प्रतीतिबाधा, अक्षज्ञानेन तेषां विद्यमानत्वात् / एतदप्यतिभृतजलकुम्भस्योदकबिन्दुरिव बहिः प्लवते / तेषामनेकस्वभावत्वं चेन्द्रियार्थज्ञानेनाऽपि भेदेन ग्रहणदर्शनात् / यदि पुनः सर्वथैकस्वभावा भावा भवेयुः, तदेन्द्रियज्ञानेनाऽपि ग्रहणभेदो न स्यात् / स च दृश्यते / यथैकस्मिन्नेव वस्तुनि मन्दचक्षुषा संस्थानमात्रस्य, विमललोचनेन तु तदभ्यधिकस्य रक्तत्वादेः प्रतिपत्तिरिति / अतीन्द्रियज्ञानसद्भावश्चाऽविसंवादिज्योतिःशास्त्रादिप्रणयनान्यथानुपपत्त्या निश्चीयते / तदन्तरेण तथाविधस्य तस्याऽनुपपत्तेरिति / किञ्च सर्वज्ञाभावोऽपि कथं प्रमाणपञ्चकेन गृह्यते इति चिन्त्यम् / प्रत्यक्षस्य सदिन्द्रियविषयत्वेनाऽभावग्रहणाभावात् / भावे वाऽभावप्रमाणवैयर्थ्य, तेनैव तद्विषयस्य परिच्छिन्नत्वात् / अनुमानस्याऽपि लिङ्गलिङ्गिग्रहणसम्बन्धस्मरणोत्तरकालं प्रवृत्तेरभावस्य तुच्छत्वेन तावतोऽभावात् / भावे वाऽभावत्वविरोधात् / उपमानस्याऽप्युभयसद्भावे भावात् / सर्वज्ञस्य चाऽभावरूपेणाऽभ्युपगतत्वात् / भावाभावयोश्चोपमानोपमेयभावाभावात् / भावस्वरूपत्वे च विद्यमानत्वेनैव ग्रहणात् 'खरविषाणवत् सर्वज्ञः, सर्वज्ञवद् वा खरविषाण'मित्युपमानोपन्यासः प्रलापमात्रफल एव स्यात् / शाब्दस्याऽपि विधिसाधनत्वेनैव प्रमाणत्वाभ्युपगमात् / यथा अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादेः / न च सर्वज्ञाभावमन्तरेण कश्चिदर्थोऽन्यथाऽनुपपद्यमान उपलभ्यते, येन तत्कल्पना साध्वी स्यादित्यर्थापत्तेरपि न तदभावसाधकत्वमिति / अत एव साधकबाधकप्रमाणाभावात् संशयोऽस्त्विति चेद् ? न, साधकप्रमाणस्य विद्यमानत्वात् / तथाहि - अस्ति कश्चिदतीन्द्रियार्थसाक्षात्कारी, अनुपदेशालिङ्गाविसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादित्यग्रहणाद्युपदेशदातृत्वाद् / यो यो यद्विषयेऽनुपदेशालिङ्गाविसंवाद्युपदेशदाता स स तत्साक्षात्कारी दृष्टो, यथाऽस्मदादिः स्वयमनुभूतेऽर्थेऽनुपदेशालिङ्गाविसंवाद्युपदेशदाता तत्साक्षात्कारी /
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy