________________ जून - 2012 47 तदेतत् पित्तज्वरोपरुद्धस्येव प्रलापनमात्रम् / न पुनर्विवक्षितार्थप्रसाधकमित्यपहस्तितव्यम् / तथापि विद्वज्जनमनोरञ्जनाय किञ्चिदुच्यते / तत्र यत् तावद् नाऽस्ति सर्वज्ञः, तद्ग्राहकप्रमाणपञ्चकाभावात्, खरविषाणवदिति साधनमुपन्यस्तम् / तत्र प्रतिज्ञापदयोर्विशद्धं (विरुद्धत्वं) प्रकटमेव लक्षयामः / तथाहि - यदि सर्वज्ञो, नाऽस्ति कथम् ? नाऽस्ति चेत्, सर्वज्ञः कथम् ? इति / अथेत्थमाचक्षीथाः - परैः सर्वज्ञोऽभ्युपगम्यते / तेषामनिष्टसम्पादनार्थं सर्वज्ञ इत्युच्यते / तर्हि भवन्तं पृच्छामः / परकीयाभ्युपगमो भवतः प्रमाणमप्रमाणं वा स्यात् इति / यदि प्रमाणं तहि परैः सर्वज्ञस्याऽभ्युपगतत्वाद् निर्मूलतया तावकीनं प्रमाणत्वाभिमतं साधनमप्रमाणताकोटिमारोहतीति प्राप्तम् / अथाऽप्रमाणं, तर्हि प्रतिज्ञापदयोविरोधः तदवस्थ एवाऽवतिष्ठते / हेतुरप्याश्रयासिद्धः, प्रमेयाभावात् / अथ पर्याकुलितचेतोवृत्तिरेवं ब्रूया:परिकल्पितः प्रमेय इति / तर्हि सा विद्यमानस्याऽविद्यमानस्य वेति विकल्पौ जन्मान्तरोपात्तधर्माधर्माविवाऽव्याहतप्रसरौ पुरतोऽवतिष्ठते / यदि विद्यमानस्य, व्यर्था परिकल्पना / तामन्तरेणाऽपि तस्य विद्यमानत्वात् / विद्यमानस्याऽपि च कल्पनेऽतिप्रसङ्गो, वेदस्याऽपि कल्पनापत्तेः / सतश्च प्रमाणोपन्यासेनाऽपि प्रतिक्षिप्तुमशक्यत्वेन विपरीतसाधनाद् विरुद्धश्च हेतुः स्यात् / अथाऽविद्यमानस्य कल्पनाऽभिधीयते / एवं सति न कश्चिदपि हेतुराश्रयासिद्धिमास्कन्देत् / तथा च सत्यनित्यः शब्दः चाक्षुषत्वात्, इत्यादेरपि गमकत्वप्रसङ्गः / तत्रापि कस्यचिद् धर्मिणः कल्पयितुं शक्यत्वात् / किञ्च प्रमाणपञ्चकाभावः किं ज्ञातः सर्वज्ञाभावं साधयेत् अज्ञातो वेति कलहंसयुगलमिव विमलं विकल्पयुगलममलमवतरति / यदि ज्ञातः, कुतो ज्ञप्तिरिति वाच्यम् / अपरप्रमाणपञ्चकाभावादिति चेत् सोऽपि कुतो ज्ञायते इति निर्लज्जकुट्टनीवाऽनवस्था पश्चाद् धावन्ती दुर्निवारा स्यात् / अथ प्रमेयाभावात् प्रमाणाभावः, तर्हि प्रमेयाभावे प्रमाणाभावः, प्रमाणाभावे च प्रमेयाभाव इति महासमुद्रोदकवद् दुरुत्तरमितरेतराश्रयत्वं समापनीपद्यते / अथाऽज्ञातः तर्हि अविशेषेणाऽऽविद्वदङ्गनादीनामपि सर्वज्ञाभावं गमयेत् / न चैतद् / गृहीतसङ्केतस्यैव तदभावप्रतिपत्तेरिति स्वरूपस्याऽपि ज्ञातुमशक्यत्वात् स्वरूपासिद्धश्च हेतुः / खरविषाणस्याऽपि दृष्टान्तत्वेनोपन्यस्तस्याऽपरदृष्टान्तमन्तरेणाऽसिद्धेरपर