________________
८८
लिङ्गज्ञानकरणकं पक्षे साध्यज्ञानमनुमानम् ॥२.२.१६॥ व्यापारो व्याप्तिस्मृतिर्न परामर्शादिः ॥२.२.१७॥ स्वार्थमेतत् ॥२.२.१८॥
अनुसन्धान-५८
लिङ्गमन्यथानुपपत्त्येकरूपं, न त्रिरूपादि ॥२.२.१९॥ तदुपलब्ध्यनुपलब्धिभ्यां द्विधा ॥२.२.२०॥ तद् द्वयं विरुद्धाऽविरुद्धाभ्यां द्विविधम् ॥२.२.२१॥ अविरुद्धोपलब्धि-विरुद्धानुपलब्धिभ्यां विधिसिद्धिर्विरुद्धोपलब्ध्यविरुद्धानुपलब्धिभ्यां च निषेधसिद्धिः ॥२.२.२२॥
तत्राऽविरुद्धोपलब्धिर्व्याप्य कार्य-कारण- पूर्वचरो - - त्तरचर - सहचरैः षोढा ॥२.२.२३ ॥ स्वभावविरुद्ध-विरुद्धव्याप्य - कार्य-कारण- पूर्वचरो -त्तरचर - सहचरैर्विरुद्धोपलब्धिः सप्तधा ॥२.२.२४॥ विरुद्धकार्य-कारण-स्वभाव-व्यापक - सहचरानुपलम्भैर्विरुद्धानुपलब्धिः पञ्चधा
॥२.२.२५॥ स्वभाव-व्यापक-कार्य-कारण
नुपलब्धिः सप्तधा ॥२.२.२६॥
न तु स्वभाव-कार्या-ऽनुपलब्धिभिस्त्रिप्रकारमेव कारणाद्यसङ्ग्रहात् ॥२.२.२७।। प्रमाणविकल्पोभयतः प्रसिद्धो धर्मी पक्षः ॥२.२.२८॥ यद् विना लिङ्गं नोपपद्यते तत् साध्यम् ॥२.२.२९॥ अप्रतीता-ऽनिराकृता-ऽभीप्सितत्वानि तस्य सिद्धा [व] नुगुणानि ॥२.२.३०।। पक्षहेतुवचनाद्यात्मकं परार्थमुपचारात् ॥२.२.३१॥
व्युत्पन्नमतीन् प्रति द्वावेव प्रतिज्ञाहेतू, मन्दमतीन् प्रति तु प्रतिज्ञा - हेतू-दाहरणोपनय-निगमनानि पञ्चाऽप्यवयवाः प्रयोक्तव्याः ॥२.२.३२॥
प्रतिज्ञादित उदाहरणादितो वा त्रय एवोदाहरणोपनयौ द्वावेव, पञ्चाऽप्यवयवाः प्रयोक्तव्या इत्येकान्ते मानाभावः ॥२.२.३३॥
साध्यवत्तया धर्मिणो वचनं प्रतिज्ञा ॥२.२.३४॥
- पूर्वचरो -त्तरचर - सहचरानुपलब्धिभिरविरुद्धा
पञ्चम्यन्तस्य तृतीयान्तस्य वा लिङ्गस्य हेतुः ॥२.२.३५॥ प्रतिबन्धप्रदर्शनपुरस्सरं साधर्म्यतो वैधर्म्यतो वा दृष्टान्तस्योदाहरणम् ॥२.२.३६॥