________________
फेब्रुआरी - २०१२
पक्षे लिङ्गस्योपसंहार उपनयः ॥२.२.३७।। साध्यस्याऽबाधिततया पुनर्निगमनमिति ॥२.२.३८।।
॥ इति द्वितीयाध्याये द्वितीयः पादः ॥ आप्तवचनोत्थमागमः ॥२.३.१॥ आप्तो यथादृष्टवक्ता ॥२.३.२।। लौकिक-लोकोत्तराभ्यामाप्तो द्विधा ॥२.३.३।। आद्यः पित्रादिर्द्वितीयस्तीर्थकरादिः ॥२.३.४।। वर्णपदवाक्यं वचनं पौगलिकमेव ॥२.३.५॥ न गुण, आगत्याद्यनुपपत्तेः ॥२.३.६।। नित्यं द्रव्यं परार्थत्वान्नोत्पत्तिविपत्तितः ॥२.३.७।। न, नादोपाधेर्व्यतिरिक्तस्याऽसिद्धेः ॥२.३.८।। अभिव्यक्तिर्न विचारसहा ॥२.३.९॥ अभिज्ञानं नाऽनाभासम् ।।२.३.१०।। वर्णाः प्रतीताः, तेषामानुपूर्वीविशेषः पदं, पदानां वाक्यम् ॥२.३.११।। अर्थे स्वाभाविकः प्रत्यायनशक्तिस्तत्सम्बन्धः ॥२.३.१२॥ शक्तिस्त्वन्यत्राऽप्यावश्यकी ॥२.३.१३।। तदभिव्यञ्जकः सङ्केतो न सम्बन्धो, वाच्यवाचकभावनियमानुपपत्तेः ॥२.३.१४।। यथार्थत्वा-ऽयथार्थत्वे त्वस्य वक्तृदोषगुणापेक्षे ॥२.३.१५।। विधि-निषेधाभ्यां सर्वत्र सप्तभङ्गीमनुसरति ॥२.३.१६॥ क्रमयौगपद्यतो विधिनिषेधकल्पनतः स्यात्काराङ्कितानामेवकारजुषां सर्वमस्तीति
नाऽस्तीत्यस्ति नाऽस्ति चेत्यवक्तव्यमित्यस्त्यवक्तव्यमिति नाऽस्त्यवक्तव्य
मित्यस्ति नाऽस्ति चाऽवक्तव्यमिति भङ्गानां सप्तानामेव भावात् ॥२.३.१७।। प्रतिपर्यायं धर्म-तत्संशय-जिज्ञासा-पर्यनुयोगानां सप्तानामेव भावात् तथाभावः
॥२.३.१८॥ प्रतिभङ्गं सकल-विकलादेशस्वभावा सप्तभङ्गी ॥२.३.१९।। कालादिभिरष्टभिरभेदवृत्तितोऽनन्तधर्मात्मकवस्तुनो यौगपद्येनाऽभिधायकं वचः
सकलादेशो, विपरीतमतो विकलादेशः ॥२.३.२०।।