________________
फेब्रुआरी - २०१२
६१
रवः शब्दो येषां ते नीरवाः, हे हर!- शङ्कर!, वेणव:- वंशाः ॥१००॥
'कश्चिदैत्यो वदति दनुजान् घ्नन् हरे! किं किमाधाः?, शक्रात् प्रोहः पृथगुदधिजाकान्त-वैवस्वता-ऽन्ताः । क्षिप्तः कश्चित् किल ललनया मन्मथोन्माथदुस्थः,
सख्याऽऽस(च)ख्ये कथमथ मनःखेदविच्छेदहेतोः? ॥१०१॥ कंसमानमायमकालावसान । गतागतः ।
१. हे कंस!- दैत्य!, मानं- पूजाम् आयं- लेभे । इण् गतौ इत्यस्य ह्यस्तन्यवि वृद्धौ सत्यां रूपम् । २. हे [अ!-] विष्णो!, हे काल!, हे अवसान!, सा अबला- स्त्री कामयमानम्- अभिलषन्तं कं नाऽऽस- चिक्षेपे? अपि तु सर्वमपि क्षिप्तवती ॥१०१॥
जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः ।
सध्रीची यदपृच्छत् तदुत्तरं प्रापत् तत एव ॥१०२॥ प्रसूनपुञ्जेऽनवमालिका ।
प्रसूनपुञ्जे- कुसुमनिवहेऽनवमा- प्रधाना आलि!- सखि! का इत्यर्थः? । प्रसूत इति प्रसूस्तया ऊनः प्रसूनो जननीरहित इत्यर्थः, स चासौ पुमांश्च प्रसूनपुमान्, तस्माज्जाता प्रसूनपुञ्जा च सा [ई:-] लक्ष्मीश्च, तस्याः सम्बोधनम्हे प्रसूनपुञ्जे!- जननीरहितपुरुषोद्भवलक्ष्मि!, नवमालिका- नवा चाऽसौ मालिका च ॥१०२॥
देवीं कमलासीनामन्तकचिरनगररक्षकः स्मृत्वा । यदपृच्छत् तत्रोत्तरमवाप कालीयमानवपुरत्र ॥१०३।।
का लीयमानशरीरा त्रिजगति? । यमस्याऽनवं- पुरातनं पुरं- नगरं, तत् त्रायते यः स तथा, तस्य सम्बोधनम् - हे यमानवपुरत्र!, काली देवता ॥१०३।।
'सैन्याधिभूरभिषिषेणयिषुस्तदीयः, कं किं करोति विजयी नृपतेह(ह)वेन? । कीदृक् क्व(च) मन्मथवतः प्रतिभाति कान्ता,
पत्नीहितो वदति चेतसि कस्य पुंसः? ॥१०४।।