SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६० अनुसन्धान- ५८ हे भव!- शङ्कर!, द्य- खण्डय वादे - पक्षप्रतिपक्षपरिग्रहरूपे, शं- सुखम् । ५. भवत:- क्त्वाप्रत्ययस्य यबादेशो भवद्यबादेशस्तम् । यादृशं निर्दम्भशब्देनाऽर्थतो रूपमभिधीयते तादृशं विपूर्वस्य मीनातेः क्त्वाप्रत्ययस्य यबादेशे सति भवति । तथाहि - निर्दम्भशब्देन निर्गतमाय उद्यते, विमाय - अनेनाऽपि स एवेति भावः ॥९६॥ स्मृत्वा पक्षिविशेषेण जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी[मप्राक्षी ] त् किं समोत्तरम् ? ॥९७॥ यादवकङ्कः । हे इ! - लक्ष्मि!, आद- भक्षितवान् बकं- पक्षिणम् क: ? । हे यादव ! - वृष्णिवंशोद्भव!, कङ्कः- पक्षिविशेषः ॥९७॥ ॥९८॥ प्रपञ्चक्व(वञ्च)नव(च)णं ध्यात्वा कि( क ) मपि देहिनम् । विश्वम्भरा यदप्राक्षीत् ततः प्राह (प) तदुत्तरम् ॥९८॥ कोनालीकः । कः ना- पुरुषोऽलीक: ? । हे को! - पृथ्वि!, नालिको दुंवालिक: (?) जात्यतुरगाहितमति-ल(र्ल) क्ष्मीपतिमप्सरोविशेषपतिः । यैर्वर्णैर्यदपृच्छत् तैरेव तदुत्तरं प्रापत् ॥९९॥ मेनकाजानेययुता । माया इनो मेनस्तत्सम्बोधनम् - हे मेन! - लक्ष्मीपते!, काऽऽजानेययुताका अश्वयुता? । मेनका जाया यस्य स मेनकाजानिस्तस्य सम्बोधनम् - हे मेनकाजाने!- ऽप्सरोविशेषपते !, ययुता - अश्वता । जायाया जानिरिति विशेषलक्षणात् ॥९९॥ केन केषां प्रमोदः स्यादिति पृच्छन्ति को (के) किन: ? । 'सङ्गीतके च कीदृक्षाः प्राह शम्भुर्न भान्ति के ? ॥१००॥ नीरवारवेणवः । १. नीरवाहो मेघस्तस्य रवः- शब्दस्तेन वो- युष्माकम् । २. निर्गतो
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy