________________
फेब्रुआरी २०१२
कामलालसामहेला ।
मला(लो)- दुरितं, आलो - विद्यमानदूषणं, साम- समता तां हन्ति सामहः । मलश्चाऽऽलश्च सामहश्च ते तथा तेषामिला - भूमि: का? । कामलालसा महेला मारलम्पटा स्त्री ॥९३॥
विधित्से किं शत्रून् युधि नरपते !? वक्ति कामल (कमला), वराश्वीयं कीदृक्? क्व च सति नृपाः स्युः सुमनसः? । *विहङ्गः स्यात् कीदृक् ? 'क्व रजति रमा ? ६ पृच्छति हरप्रतीहारी भीरो! किमिह कुरुषे ? 'ब्रूत मदनम् ॥९४॥ विजये । गतागत: अनुर्गतः ।
५९
१. विजये । विपूर्वो जि जये, वर्त्तमाना ए, 'विपराभ्यां जि’रित्यात्मनेपदम्। २. या श्रीस्तत्सम्बोधनम् - हे ये!, जवो - वेगो विद्यते यस्य तज्जवि । ३. विशेषेण जय:- परेषां हननं, तस्मिन् विजये सति । ४. वेःपक्षिणो जातो विजः। ५. अ - विष्णुस्तस्मिन् ए । ६. हे विजये ! - शाङ्करप्रतीहारि!, विजे- भयं करोमि । ओविजी भयचलनयोर्वर्त्तमाना ए । ७. इःकामस्तस्य सम्बोधनम्—- हे ए! ॥९४॥
'हंहो! शरीर! कुर्या: किमनुकलं त्वं वयोबलविभाद्यैः? । ±मदनरिपोर्दृक् कीदृक्? श्जैन: कथमुपदिशति धर्मम्? ॥९५॥ जिनान्यजध्वंसदा ।
१. जिनानि - हानिं गच्छामि एभिः कृत्वा । २. अज:- कामस्तस्य ध्वंसं ददातीति अजध्वंसदा सा हरदृग् । ३. जिनान् यजध्वं सदा - नित्यम् ॥९५॥ 'कीदृग् भाति नभो? 'न के च सरुजां भक्ष्या? नृपः पाति कं?, "वादी पाशुपतो विवाद उदय[द्]दुःखः शिवं वक्ति किम्? । “निर्दम्भेति यदर्थतः प्रणिगदेद् रूपं विपूर्वाच्च त
न्मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ॥९६॥
भवद्यवादेशं । व्यस्तः द्विसमस्तः ।
१. भं- नक्षत्रं विद्यते यत्र तद् भवत् । २. यवाः । ३. देशम् । ४.