SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५२ अनुसन्धान- ५८ 'म(प)द्मस्तोमो वदति कपिसैन्येन भोः कीदृशा प्राक्, सिन्धौ सेतुर्व्यरचि? रुचिरा का सतां वृत्तजाति: ? । ३को वा दिक्षु प्रसरति सदा कण्ठकाण्डात् पुरारे:?, *किं कुर्याः कं हरमिति (रह इति) सखीं पृच्छतीं स्त्री किमाह ? ॥६७॥ नालिननलिना मालिनीनीलिमा । मानानिइनमालि । मन्थानान्तरजातिः । १. नलिनानां पद्मानां समूहो नालिनं तस्य सम्बो० हे नालिन!, नलो विद्यते यत्र तन्नलि, तेन नलिना सैन्येन । २. मालिनीच्छन्दः । [३. नीलिमा ।] ४. मानानि - पूजयामि इनंस्वामिनं, हे आलि ! - सखि ! ॥६७॥ ना मा लि नी न 'पथि विषमे महति भरे धुर्या: किं स्म कुरुथ कां कस्य? | 'अत्याम्लतामुपगतं किं वा के नाऽभिकाङ्क्षति ? ॥६८॥ दधिमधुरमनसः । दधिम- भृतवन्तः, परोक्षा परस्मैपदोत्तमपुरुषबहुवचनं स्यांस्त्रादिनिय - मादिदम्, धुरमनस:- शकटस्य । २. दधि कर्मभूतं, के कर्त्तारः ? मधुरमनो येषां ते तथा । 'भानोः केष्येत पद्मैरुडु' वदति पदं पप्रथे किं सहार्थे?, ३कामो वक्ति व्यवायोऽपि च पदनिपुणैः पञ्चमी केन वाच्या? । * सप्राणः प्राह पुंसि क्व सजति जनता ? 'भाषतेऽप्यार्द्रभावः, कुर्वेऽहं क्लेदनं किं ? क्व च न खलु मुखं राजति (ते) व्यङ्गितायाम् ?, ̈ सत्यासक्तं च सेर्ष्याः किमथ मुररिपुं रुक्मिणीसख्य आख्यन् ? ॥६९॥ भामारतसानतेमनसि । शृङ्खलाजातिः । १. भा- प्रभा । २. हे भ! - नक्षत्र!, अमा, एतत् सहार्थे पदम् । ३. मार! - काम!, तर (रत) ! - व्यवाय!, तसा प्रत्ययेन । ४. सहाऽऽनेन - प्राणेन वर्त्तते सानस्तस्य सम्बोधनम् - हे सान!, नते । ५. हे तेम! - आर्द्रभाव!, मनअभ्यस, मनाभ्यास (म्नाऽभ्यासे) इत्यस्य भौवादिकस्य पञ्चम्यां रूपम् । ६. नसि- नासिकायाम् । ७. हे भामारत ! - सत्यासक्त! विष्णो! सा - रुक्मिणी न ते मनसि ॥६९॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy