________________
फेब्रुआरी - २०१२
५१
अस्माकं मनो न रमयते- मोहयति ।] ॥६२।।
स्वजनः पृच्छति जैनैरघस्य कः कुत्र कीदृशे कथितः? ।
कथयत वैयाकरणां(णाः) सूत्रं कात्यायनीयं किम्? ॥६३॥ बन्धोऽधिकरणे ।
१. हे बन्धो!- स्वजन! बन्धः, कुत्र? अधिकरणे- पापव्यापारे, किंविशिष्टे? अधिको रणो यत्र तत् तथा तस्मिन् । [२. बन्धोऽधिकरणे (कातन्त्रव्या० ४-६-२५)] ॥६३॥
'ब्रवीत्यविद्वान् गुरुरागतः कौ सावित्र्यं मे(त्र्युमे) किं कुरतः सदैव ।
आशैशवात् कीदृगुरभ्रपोतः पुष्टिं च तुष्टिं च किलाऽऽप्नुवीत? ॥६४॥ अविदूसरतः ।
१. वेत्तीति वितन् (द्, न) विदवित्, तस्य सं०- हेऽवित्!, उर्ब्रह्मा उ: शङ्करः, उश्च उश्च ऊ कर्मतापन्नौ सरतौ- गच्छतः । २. अवि(वे)गडरिकाया दूसं-दुग्धं, तत्र रतः स तथा ॥६४॥
"तन्वि! त्वं नेत्रतूणोद्धृतमदनशराकारचञ्चत्कटा:लक्ष्यीकृत्य स्मरार्तान् सपदि किमकरोः सुभ्र! तीक्ष्णैरभीक्ष्णैः? । किं कुर्वाते भवाब्धि सुमुनिवितरणा(?)श्रीजिनाज्ञासु सक्तौ?',
३ श्रद्धालुः प्राप्तमन्त्राधुचितविधिपरः प्रायसः(शः) कीदृशः स्यात्? ॥६५॥ अविध्यंतरतः ।
१. अविध्यमिति व्यध ताडने इत्यस्य दैवादिकस्य ह्यस्तन्यमि रूपम् । २. तरतः- पारं गच्छतः । ३. अविधेरन्तो विनाशस्तत्र रतः स तथा ॥६५।।
कीदृग् दृष्टमदृष्टः स्यादित्यक्षकीलिका ब्रूते ।
२भणइ पिया ते पिययम! कीए कहिं अभिरमइ दिट्ठी ॥६६।। मुद्धेतुहरमणे।
१. मुदो- हर्षस्य हेतवस्ते तथा तानरहरनि (तान् हरति) तथा, हेऽणे! शकटकीलिके! । २. हे मुग्धे! तुह- तव रमणे- सुरतव्यापारे ॥६६॥2 1. 'सुमुनिवितरणादायकस्तावकौ द्राक्' इति पाठः समस्ति म.विनयसागरसम्पादितपुस्तके - सं.। 2. मुद्रितपुस्तके इतः परं 'कीदृग्जलधरसमय...' इति श्लोकोऽधिकः । - सं. ।