SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी २०१२ 'तरुणेषु कीदृशं स्यात् कुर्वत् कीदृक् किमक्षि तरलाक्ष्याः? । 'सा जोघ(व्व)णभयंती भणह करं केरिसं कुणइ ? ॥७०॥ उवलद्धवलयं । ५३ १. किं कुर्वद् ? वलत् कीदृक् स्याद् ? अवतीति ऊ - रक्षकं, 'स्वरो हुस्व' इति ह्रस्वत्वम्, नपुंसकत्वादक्षिशब्दस्य, कीदृक् सत् ? धवलयं - धवे लयो यस्य तत् । २. उपलब्धं वलयं यस्य स तथा तम् ॥७०॥ 'सत्यक्षमार्त्तिहर आह जयद्रथाजौ पार्थ! त्वदीयरथवाजिषु का किमाधात् ? । अप्पोवमाइ किर मच्छरिणो मुणंति किं रूत (प? ) मिच्छसुयणं भण केरिसं ति ॥७१॥ सच्छमतुच्छरसरिच्छं । १. सत् - सत्यं, शम:- क्षमा, तुदतीति तुत् क्विप् - अर्त्तिः, सच्च शमश्च तुच्च सच्छमतुतः तान् व्यतिहरति स तथा तस्य सम्बोधनम् हे सच्छमतुच्च्!, शरास्तेषां सरिन्नदी धोरणिरिति यावत्, सा शं- सुखं, आधादिति सम्बन्धः । २. स्वच्छरूपं स्वच्छस्वभावं सन्तं प्राणिनमतुच्छः प्रभूतो मत्सरो यस्य स तथा तेन सदृशम् ॥७१॥ 'कीदृक्षः कथयत दौषिकापणः स्यात् ? न्रा केन व्यरचि च पट्टसूत्ररागः? । क्षुद्रारिर्वदति किमुत्कटं जिगीषो: ? * किं जघ्रे शकरिपुणेति वक्ति रङ्कः ॥७२॥ शाटकीकीटशा कण्टककटकम् शाकंकीकट । मन्थानकजातिः । कं शा ट की १. शाटका विद्यन्ते यत्र शाटकी । २. कीटान् श्यति कीटश् तेन कीटशा । ३. हे कण्टक! - क्षुद्रारे!, कटकं - सैन्यम् । ४. शाकानां राज्ञां समूहः शाकम्, हे कीकट !- रङ्कः ॥७२॥ 'ब्रह्मास्त्रगर्वितमरिं [र]णसीम्नि शत्रु-ख [ ड्ङ्गा ] क्षमं हरवितीर्णवरः किमाह? । कामी प्रियां भणति किं त्वरितं रतार्थी? क वस्त्रं परास्यसह! सादयितेभबाधः ॥ ७३ ॥ १. ओः ब्रह्मणोऽस्त्रं वस्त्रं; परस्याऽसि: खड्गं(ड्ग:), तं न सहते परास्यसहस्तस्य सम्बोधनम् - हे परास्यसह !, तत्प्रति सादयिता - खण्डनशीलः, इभबाधो, हर इभं बाधते इति । २. वस्त्रं - वसनं परास्य- परित्यज्य, सहसा
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy