________________
फेब्रुआरी - २०१२
प्रभविष्णुविष्णुजिष्णुनि युद्धे कर्णस्य कीदृगभिसन्धिः? ।
'नकुलकुलसङ्कुलभुवि प्रायः स्यात् कीदृगहिनिवहः? ॥५॥ विलसदनरतः । १. अश्च विष्णुर्नरश्चाऽर्जुनस्तौ अनरौ । विलसतौ च तौ अनरौ च, तस्यतिक्षयं नयति इति [क्विप्] । धातुत्वान्न दीर्घः । २. बिलसदनरतः- छिद्रगृहासक्तः ॥५॥ १ब्रतो ब्रह्मस्मरौ के रणशिरसि जिताः केन जेत्राऽऽह 'विद्वानुद्यानं स्यान्न कीदृग्? २जलधिजलमहो कीदृशं स्यान्न गम्यम्? । ४को मां वक्त्याऽऽह कृष्णः? पक्व सति पटु वचः? स्यादुतः केन वृद्धि
स्त्याज्यं कीदृक् तडागं? “नतिमति लघु[का] किं करोत्युत्कटं किम्? ॥६॥ वीराज्ञाविनुदतिपापम् । शृङ्खलाजातिः । १. उश्च इश्च वी - हे वी! । वीरा:- सुभटाः । केन जेत्रा? राज्ञा- भूपेन। २. जानातीति ज्ञः - हे ज्ञ! । न विद्यन्तेऽवयः पक्षिणो यत्र तत् अवि उद्यानं न भवति । ३. विगता नौबेटिका यत्र तत् विनु । ४. नौतीति नुत् । हे अ!विष्णो! यस्त्वां नौति स वक्ति । ५. दति- दशने सति । दन्तस्य दतीति दत् । पटुवचनो भवतीत्यर्थः । ६. तिपा- तिप्रत्ययेन, 'उतो वृद्धिरित्यादिना। ७. अपगताः आप:- पानीयानि यत्र तत् पापम् । 'वष्टी'त्यादिना अलोपः । [८. वीराज्ञा उत्कटं पापं विनुदति ।] ॥६॥
'दृष्ट्वा राहुमुखग्रस्यमानमिन्दुं किमाह तद्दयिता? ।
२असुमेति पदं कीदृक् कामं लक्ष्मी च बोधयति? ॥७॥ अवतमसम् । १. अवत- रक्षत मसं- चन्द्रम् । २. न विद्यन्ते उश्च अश्च तश्च मश्च सश्चवतमसो यत्र तत् अवतमसं, ततो हे ए!- काम!, हे इ!- लक्ष्मि! इति भवति ।।७।।
'कमभिसरति लक्ष्मीः ? 'किं सरागैरजय्यं?,
सकलमलविमुक्तं कीदृशं ज्ञानमुक्तम्? । "सततरतविमर्दै निर्दये बद्धबुद्धिः, किमभिलषति कान्ता? ५किं च चक्रे हनूमान्? ॥८॥