SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३४ अनुसन्धान-५८ क्रमनखदशकोद्यद्दीप्रदीप्तिप्रतानै-र्दशविधतनुभाजामुज्ज्वलं मोक्षमार्गम् । युगपदिव दिशन्तं पार्श्वमानम्य सम्यक्, ___ कतिचिदबुधबुद्ध्यै वच्म्य[थ?][प्र]श्नभेदान् ॥१॥ 'कीदृग्वपुस्तनुभृतामथ 'शिल्पि-शिक्य-देहानुदाहरति काध्वनिरत्र कीदृग्? । काश्चाऽऽरु[ह]न् समवसृत्यवनौ भवाम्बु-मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः? ॥२॥ जिनदन्तरुचयः । १. जिनत्- हानि गच्छत् । ज्या हानौ, शन्तु इ, ना विकरणे, ग्रहिज्यावयीत्यादिना... [सम्प्रसारणम्], दीर्धेत्यादिना दीर्घत्वम्, प्वादीत्यादि]ना इस्वत्वम्, त्र्यादीत्यादिना आकारलोपः । २. रुश्च चश्च यश्च रुचयास्तेऽन्ते यस्य काध्वनेः । ततो यथाक्रमं 1 कारु - 2 काच - 3 काय इति भवति । ३. अर्हद्दशनदीप्तयः ॥२॥ सश्रीकं यः कुरुते स कीदृगित्याह जलचरविशेषः । २अप्सु ब्रुडत्किमिच्छति? २कीदृक्कामी? च किं वाञ्छेत्? ॥३॥ समुद्रतरणम् । १. सह मया- लक्ष्म्या वर्त्तते इति समः । तं करोति इन्, ततः क्विप् । उद्रः कश्चिज्जीवविशेषः । हे उद्र!, सम् । २. तरणम्- प्लवनम् । ३. सह मुदाहर्षेण वर्त्तते यः स समुद् । ४. कामी रते- मोहने रणं- युद्धम् ॥३॥ कीदृक् पुष्पमलिव्रजो न भजते? 'वर्षासु केषां गति र्न स्यादध्वनि? २कं श्रितश्च कुरुते कोकं सशोकं रविः? । "लङ्केशस्य किल स्वसारमकरोद् रामानुजः कीदृशीं? "केषां वा न [मनो] मुदे मृगदृशः शृङ्गारलीलास्पृशः? ॥४॥ अपरागमनसाम् । १. अपगतो राग:- किञ्जल्को यस्मात् तदपरागम् । २. अनसां- शकटानाम् । ३. अपरस्यां दिशि अगः- पर्वतः अपरागस्तम् । ४. अनसां- नासारहिताम् । नासाया नस् विशेषलक्षणतः । ५. अपगतो रागो मनसि- चित्ते येषां ते अपरागमनसस्तेषाम् । द्विर्व्यस्तसमस्तजातिः ॥४॥
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy