________________
अनुसन्धान-५८
अक्षरणम् । चलद्विन्दुजातिः । १. अं- विष्णुम् । २. अक्षं- इन्द्रियम् । ३. अक्षरं- ज्ञानम् । न क्षरतिचलतीति । ४. अक्षरणं- अचलनम् । ५. अक्षैः- पाशैः रणं- सङ्ख्यं सङ्ग्रामो वा ॥८॥
भूरापृच्छति किल चक्रवाकमेषोऽपि भूमिमप्राक्षीत् ।
पीतांशुकं किमकरोत् कुत्र? 'क्व नु मादृशां वासः? ॥९॥ कोकनदे । १. हे को!- पृथिवि!, अकनत्- अशोभत ए- विष्णौ । २. हे कोक!चक्रवाक!, नदे- हृदे ।
हरि-रति-रमा यूयं कान् किं कुरुध्वमदोऽक्षरं, किमपि वदति? भेजे गीतश्रियाऽपि च कीदृशा? । ३जिनमतजुषां का स्यादस्मिन् कियच्चिरमङ्गिनां?,
गतशुभधियां का स्यात् कुत्राऽभियोगविधायिनाम् ॥१०॥ यानताम स समतानया विभुता सदा दासता भुवि । मन्थानकजातिः । १. ईश्च इश्च अश्च यास्तान् अताम- गच्छाम हे स! । हरिः ईं- लक्ष्मी, रतिः इं- कामं, लक्ष्मीः अं- विष्णुं यातीत्यर्थः । २. समः तानो यस्यां सा समताना, तया । या न ता म स | ३. विभुता नायकत्वम्, सदा सर्वकालम् । ४. दासता कर्मकरत्वम्, भुवि पृथिव्याम् ॥१०॥
प्रतिवादिद्विरदभिदे गुरुणेह किमक्रियन्त के कस्य? ।
उरशब्दः कल्याणद-बल-हिम-शृङ्गान् वदति कीदृग्? ॥११॥ आदिश्यन्तरवविशिखानुः ।
१. आदिष्टा, रवविशिखाः- शब्दबाणाः, नुः- पुरुषस्य । २. न विद्यते उर्यत्र स अनुः । आदौ शिः अन्तरे- मध्ये वश्च विश्च शिश्च खश्च यस्य स चाऽसौ अनुश्च स तथा । ततो यथाक्रमं शिवरः शिबिरं शिशिरं शिखरं इति भवति ॥११॥
स