SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ८ अनुसन्धान- ५७ मायाबीजमयं फणीन्द्रसहितं पद्मावतीसेवितं, ये मन्त्रं तव नाथ ! गर्भितमिमं ध्यायन्ति हृत्पङ्कजे ॥२॥ तापीतटिन्या उपकण्ठशोभि, श्रीसूरतं बन्दिरमस्ति रम्यम् । लीलावतीनेत्रमिवास्ति....., विनोदयल्लोकभरं विलासैः ॥३॥ तत्रास्त्युम्बरवाडिपार्श्वजिनपस्त्रैलोक्यचिन्तामणिः, श्रीमद्भिः सदुकेशवंशतिलकैर्यो वृद्धशाखान्वितैः । माणिक्यादिमहार्हरत्ननिकरव्यापारबद्धस्पृहैः, सम्यक्त्वादिगुणैः सुभावकुसुमैरभ्यर्च्यते श्रावकैः ||४|| अब्दे त्रिष्वष्टचन्द्रे सुखकरसुखगे माघमासे विशुद्धे, शुक्ले पक्षे च वारे प्रवरसुरगुरौ पञ्चमीकर्मवाट्याम् । बिम्बं प्रासादमुख्ये जिनगुणरसिकैः स्थापितं यस्य सङ्घैः स श्रीमत्पार्श्वनाथो दिशतु भवभृतां मोक्षलक्ष्मीविलासम् ॥५॥ जो भोगे परिहत्तु दुग्गइपए लद्धूण सामन्नयं, पत्तू केवलनाणदंसणदुअं सिक्खेउ भव्वे जणे । सेलेसीकरणं पवज्ज लहिओ सिद्धिगणालिंगणं, सो वामातणओ मुणिंदथुणिओ बोहीदओ होउ मे ॥६॥ चतुर्मुखोऽसौ न च नाभियोनि - र्दशावतारोपि न विष्णुरेषः । फणाधरोऽसौ न च शेषनागः पुनातु पार्श्वो भुवि सङ्घलोकम् ॥७॥ पानाचन्द्र इति प्रशस्तगुणभाक् नामास्ति माणिक्यसूस्तस्याभ्यर्थनया मया जिनगृहस्येयं प्रशस्तिः कृता । सिद्धिस्त्रीवरणाय मण्डपनिभे प्रासादमुख्ये शुभे, भव्यौघाह्वयनाय कुड्कुमयुता पत्रीव संशोभते ॥८॥ श्री मुक्तिसौभाग्यसुवाचकेन्द्रा - स्तपागणे स्वस्तिकरे जयन्ति । तेषां विनेयो विशदां प्रशस्ति, कल्याणसौभाग्यगणिलिलेख ||९|| ॥ इति श्रीउम्बरवाडिपार्श्वनाथप्रशस्तिः सम्पूर्णा ॥ श्रेयसे त् कर्तृपाठकयोः ॥ C/o. निकेश संघवी कायस्थ महोल्लो, गोपीपुरा, सूरत - १
SR No.520558
Book TitleAnusandhan 2011 12 SrNo 57
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages135
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy