________________
ऑगस्ट २०११
३७
विश्वं विवस्वति विभासयति प्रभाभिः
को वान्धकारनिकरस्य किलावकाशः ॥६॥ कल्पद्रुमः प्रकुरुतां किमभीष्टजातं ।
___ कस्याऽस्तु वा सुरमणी रमणीय एषः । कृत्वाऽथ किं भवतु कामदुघाऽप्यमोघा
सङ्कल्पिताऽधिकफलं समवाप्य नेमिम् ॥७॥ मायानिशि स्फुरितमोहमहाप्रमीला
सम्मीलितं नयनमान्तरमेतदीश ! । विश्वत्रयप्रकटनाय पटीयसीभिर्
___ गोभिः प्रबोधकलितं यदि तावकीभिः ॥८॥ भालं विशालमिदमिन्दुकलाऽभिरामं
किं वर्ण्यते त्रिदशवन्दितपादपद्मम् ! । नैवं व्ययं लवणिमाऽमृतमेति यत्र
पेपीयमानमपि नेत्रचकोरवृन्दैः ॥९॥ काऽपि प्रभो ! तव विशाल विलोचनानां ।
छायाकपोलयुगलं कमनीयकान्ति । कर्णद्वयं त्रिजगतीकमलाविलास
दोलाकलं बत न कस्य मुदं दधाति ॥१०॥ कलिमलकलुषानां प्राणिनां पावनी ते
विमलरुचिजलौघैः पूरिता मूर्तिरेषा । अमरसरिदिवाऽलं पापजम्बालजालं
विदलयति विशालं देव ! मे सर्वकालम् ॥११॥ त्रिदशपुरपुरन्ध्रीरूपरेखाविषाद
क्षमलवणिमलीला भोजपुत्रीं विहाय । कलितविरतिभावः पावयामास नेमे !
निजचरणसरोजैस्तं भवान् रैवताद्रिम् ॥१२॥ सिर(त)करकराकारा कीर्त्तिन मे हृदयप्रिया
सकलललनालीलालापा विलापसमा मताः ।