________________
३६
रत्नाकरपञ्चविंशतिकामां 'नरेन्द्रदेवेन्द्रनतांह्रिपद्म, नेमिनाथ माटे 'नेमिन्', राजीमती माटे गोत्रनाम ‘भोजपुत्री अने सरसीयते (नामधातु ) अने 'पेपीयमान (यङ्गन्त) प्रयोगो स्तोत्रने उदात्त बनावे छे.
"रत्नाकरसूरिविरचितम् रैवताद्रिमण्डननेमिजिनस्तोत्रम्"
अनुसन्धान-५६
श्रीरैवताद्रिकमलापृथुकण्ठपीठ
शृङ्गारहारतुलनां कलयन्ति यस्य । स्फारस्फुरत्क्रमनखद्युतयोऽतिदीप्राः,
श्रीनेमिनं जिनवरं तमहं स्वीमि ॥१॥
नेमे ! तव स्तवनमुज्ज्वलकेवलात्म
रूपस्य गीष्पतिसमोऽपि न कर्तुमीशः ।
अन्तस्तथाऽपि परितोऽपि हि विस्फुरन्तीं
लोलां करोति तव भक्तिरियं विलोलाम् ॥२॥ काले कलौ किल निदाघतुलां दधाने
निःशेषसंवरपदेषु तनूभवत्सु । रोचिर्जलैः सुविमलैः सरसीयतेऽसौ
देव ! त्वदंह्रियुगलीयुगलं (?) भवतापभेदि ॥३॥ येनोच्छदच्छविपदं विपदन्तकारि
नेमे ! विभो ! शुभवतो भवतोंऽह्रियुग्मम् । यायादसौ नरमणी रमणीयभावं
केषामहो सुमनसां मनसां न लोके ? ॥४॥ रागादिविद्रुतमना नहि ना त्वदीयं
द्रष्टुं स्वरूपममलं तदलम्भविष्णुः । किं नीलिकागलितलोचनशक्तिरुच्चैः
पश्येत् कदापि विलसत् शशलक्ष्मबिम्बम् ॥५॥
दृष्टेऽधुना तव पदाम्बुरुहे पलायाञ्चक्रेऽन्तरङ्गरिपुचक्रमिदं हृदो मे ।