SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६२ रब्धा-तक्रैर्योऽहं तु विना स्थातुं न शक्तः । क्षणमपि न सोऽहं किं म्रिये उपवासत: ? ||४०|| तन्मारणकृते मे वर्णितः स तु तेन च' । भणित्वेति तेनैष क्षिप्तः स तु सन्मणिः ॥४१॥ नत्वा जयदेवः स चिन्तामणिं गृहीत्वा च । नगराभिमुखं श्रेष्ठी चलितो जयदेवकः ॥४२॥ विधिनाऽऽराधितस्तेन जयदेवेन स मणिः । चिन्तितार्थप्रदानेन सत्यं चिन्तामणिः स तु ||४३|| मणिमाहात्म्यतो मार्गे वैभवोल्लसितः पुरे । सुबुद्धिश्रेष्ठिनो दुहितरं व्यूढश्च रत्नवतीम् ||४४|| परिवारयुतश्चैव जनगीतगुणस्तथा । सम्प्राप्तो निजनगरं प्रणतः पितरौ च ॥ ४५ ॥ वर्णितो बहुमानेन स तैरभिनन्दितः । राज्ञा प्रशंसितश्चैव आनन्दभृतः पुनः ॥४६॥ स्तुतोऽशेषलोकैः भावैर्भूरिमानतः । भोगानां भाजनं जातः सर्वथा जयदेवकः ||४७|| उपनयश्च ज्ञातस्य ज्ञातव्योऽयं बुधोदितः । अन्यमणिखनितुल्या देवादीनां गतिर्यतः ॥ ४८|| मणि - पतिसमा चैव मानवेन लभ्यते । मनुष्यसुगतिः सर्व-पुण्यराशिवशेन च ॥ ४९|| जिनैर्जितदोषैः शोभितैः श्रीभिश्च । चिन्तामणिसमस्तत्र धर्मोऽस्ति अतिदुर्लभः ॥५०॥ पशुपालो यथा नैव प्राप्तश्चिन्तामणि मणिम् । वणिक्पुत्रस्य पुण्यस्य लाभो जातो मणेश्च ॥५१॥ तथा गुणविहीनो यो मानवो भुवने न सः । प्राप्नोति धर्मरत्नं गुणाकीर्णस्तु प्राप्नोति ॥५२॥ निशम्यैवं सुदृष्टान्तं सद्धर्मरत्ने यदि । इच्छा भवेत् तदा नित्यं कुरुत गुणार्जनम् ॥५३॥ Jain Education International For Private & Personal Use Only अनुसन्धान- ५० www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy