________________
डिसेम्बर-२००९
उपकाररहितः सोऽथ न च ददाति तथाऽपि च । उपकारकारकः श्रेष्ठिसुतो भणति बालिशम् ॥२६॥ 'यदि भद्र ! न देहीमं मणि मेऽपि तथाऽपि च । आराधय स्वयं येन एष ददाति सुचिन्तितम्' ।।२७।। तदा भणति गोपालः 'सत्यमेतद् यदा तदा । बदर-कर्बरादि स ददातु मे बहु लहु' ॥२८।। हसितो जल्पति श्रेष्ठि-सुतो 'नैव कदाऽपि च । भद्र ! चिन्त्यते एवं गोपाल ! गुरुडम्बर ! ॥२९।। उपवासत्रिकेनाऽन्त्यरात्रिमुखे प्रमोदतः । लिप्तमहीतले शुचि-पट्टे च स्नपितं मणिम् ॥३०॥ कर्पूर-कुसुमादिभिः पूजयित्वा विधिना तथा । नत्वा तस्माच्चिन्तनीयं यत् तत् प्रभाते च प्राप्नोति' ॥३१॥ श्रुत्वा स बालिश इति छालिकाग्राममागतः । 'एषोऽपुण्यस्य हस्ते न भविष्यती'ति चिन्तयित्वा ॥३२॥ श्रेष्ठिसुतो न पृष्ठं च तस्य जहाति कोविदः । गच्छन् पशुपालश्च मणिं जल्पति 'हे मणे ! ॥३३।। अधुना छागिकाः सर्वाः विक्रीय तव द्रुतम् । पूजां करिष्यामि कर्पूर-कुसुमादिसुवस्तुभिः ॥३४।। चिन्तितस्य प्रदानेन भवान् भवतु यथार्थतः' । तेनैवमुल्लपता एतदपि भणितं पुनः ॥३५।। 'दूरे ग्रामोऽस्ति मे इतस्ततः कथय कथां त्वम् । अन्यथा मे कथयतः एकाग्रो निशृणु त्वम् ॥३६।। देवालय एकहस्त: देवस्तत्र चतुर्भुजः' । पुनरुक्तमिति उक्तः जल्पति यावन्नैव सः ॥३७।। भणति तावद् रुष्टः स 'हुङ्कारमपि केवलं । यदि ददासि न मे ? आशा कीदृशी चिन्तिते तदा ? |॥३८॥ चिन्तामणिरिति ते नाम मृषा जल्प्यते सदा । तव संप्राप्त्या नैव चिन्ता नश्यति मे मनसि ॥३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org