________________
अनुसन्धान-५०
भवन्ति-सन्ति । कथं ? सद्य:-शीघ्रतरम् । किं कुर्वन्तः-स्मरन्तः चिन्तयन्तः । कं ? त्वन्नाममन्त्रं-भवदभिधानविद्याम् । कथं ? अनिसं(शं)-अनवरतम् । कीदृशाः सन्तः ? उरुशृङ्खलवेष्टिताङ्गाः-महाशृङ्खलावृतदेहाः । किं यावद् ? आपादकण्ठं-चरणगलं यावत् । पादाभ्यां प्रभृति गलप्रदेशं यावदित्यर्थः । तथा बृहन्निगडकोटिनिघृष्टजवाः-महाप'...... .............. गाढं-अतितराम् ।।४२॥
अधुना सर्वं मत्तकरिप्रभृतिभयापहार(र:)फलं स्तवपठनस्य स्तवकारः प्राहमत्तद्विपेन्द्रमृगराजदवानलाहि-सङ्ग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥
तस्य-नरस्य मतिमताशु-(मतिमत: आशु)-शीघ्रं भयं-त्रासो विनाशंक्षयं भियेव-भयेवेन (भयेनेव) उपयाति-गच्छति, यो मतिमान्-बुद्धिमान् स्तवंस्तवनमिमं-प्रत्यक्षं अधीते-पठति । कथम्भूतं ? तावकं-भवदीयम् । मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं-क्षीबकरिराज-सिंह-दवाग्नि-सर्परण-समुद्र-जलोदर-संयमनप्रभवम् ।।४३।।
इदानीं स्तोत्रमालायाः कण्ठस्थितायाः फलमाह स्तवकारः, आत्मनाम च प्रदर्शयतिस्तोत्रस्त्रजं तव जिनेन्द्र ! गुणैर्निबद्धां
भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्त्रं
तं मानतुङ्गमवसा(शा) समुपैति लक्ष्मीः ॥४४॥ तं पुरुषं, कीदृशं ? मानतुङ्ग-पूजामहान्तं अहङ्कारबृहन्तं वा । पुरुषस्याऽहङ्कारः प्रशस्यते२ - - - - - निरहङ्कारस्य लोके भस्मतुल्यत्वात्, न परलोकमार्गे । लक्ष्मी:-श्री: समुपैति-प्राप्नोति-आश्लिष्यति । कीदृशी ? अवसा(शा)-अपराधीना सती । यो जनो-नरो धत्ते-बिभर्ति । कां ? स्तोत्रस्रजंस्तवनमालाम् । कस्य ? तव-भवतः । हे जिनेन्द्र ! - सकलकेवलिनाथ !। कथम्भूतां सतीं धत्ते ? कण्ठगतां-गलप्रदेशस्थिताम् । क्व ? इह-जगति ।
१. पाठः टितः । २. पत्रं त्रुटितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org