SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर २००९ रङ्गतरङ्गशि[ख]रस्थितमानपात्रा स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ नरा व्रजन्ति - गच्छन्ति - समुद्रमुल्लङ्घयन्तीत्यर्थः । किं कृत्वा ? विहायत्यक्त्वा । कं ? त्रासं भयं मज्जनादेः । कुतो हेतो: ? स्मरणात् - चिन्तनात् । कस्य ? भवतः-तव । क्व ? अम्भोनिधौ समुद्रे । कीदृशे ? क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ - क्षुभिताश्चलिता भीषणा- भयानका ये नक्रचक्रपाठीनपीठा: - जीवविशेषाः तैर्भयं भीतिं ददाति स तथोक्तः, तथोल्बण उद्भटो वाडवाग्निर्वरदावानलो यस्मिन् स तथोक्तः, पश्चात् पदद्वयस्य कर्मधारयः समासः, तस्मिन् । कीदृशाः सन्तः ? रङ्गत्तरङ्गशिखरस्थितयानपात्रा :- रङ्गन्त-श्चलन्तो ये तरङ्गाः-कल्लोलास्तेषां शिखरं- अग्रं तस्मिन् स्थितं यानपात्रं प्रवहणं येषां ते तथोक्ताः ईदृशा अपि ||४०|| इदानीं भगवतः पादपद्मरज : पीयूषशरीरावगुण्डनस्य नराणां फलं दर्शयति स्तवकार: - उद्भूतभीषणजलोदर भारभुग्नाः सो ( शो ) च्यां दशामुपगताः श्च्युतजीविताशा: । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा Jain Education International -- २१ मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ I मर्त्या - मनुष्या भवन्ति जायन्ते । कीदृशाः ? मकरध्वजतुल्यरूपा:कामसमानाकाराः । कथम्भूताः सन्तः ? त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः भवच्चरणपरागपीयूषम्रक्षितस (शरीरा: । पूर्वं कीदृशाः सन्तः ? उपगता:प्राप्ताः। कां ? दशां-अवस्थाम् । कीदृशीं ? शोच्यां - शोचनीयां मरणयोग्याम् । किम्भूता: ? श्च्युतजीविताशाः त्यक्तजीवनवाञ्छाः । तथोद्भूतभीषणजलोदरभारभुग्ना-उत्पन्नभयङ्करोदरव्याधिविशेषप्राग्भारकुटिलीभूताः ॥४१॥ अधुना स्तवकारो भगवन्नाममन्त्रस्मरणस्य बन्धनभयापहारफलमाहआपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥ मनुजा - मानवाः स्वयं - आत्मन एव विगतबन्धभया- अपगतबन्धनत्रासा For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy