SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५० भवदभिधानसर्पदमनौषधीविशेषः ॥३७।। इदानीं भगवन्नाम्न एवोच्चारणस्य शक्रसैन्यभेदकत्वमाह कवि:वल्गत्तुरङ्गगजगर्जितभीमनाद-माजौ बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥३८॥ भूपतीनां-नृपाणां बलं-सैन्यं चतुरङ्गं भिदां-भेदमुपैति-गच्छति । कस्मात् ? त्वन्नामकीर्तनाद्-भवदभिधानोच्चारणात् । किमिव ? तम इव-अन्धकारमिव । कीदृशं सद् ? उद्यद्दिवाकर [मयूख] शिखापविद्धं-उद्गच्छद्रविकिरणपरम्पराहतं । कीदृशानां भूपतीनाम् ? बलवतां-शक्तिमतामपि । कीदृशं बलं ? वल्गत्तुरङ्गगजगजितभीमनादं-वल्गत्तुरङ्गाश्च-इतस्ततश्चलदश्वाश्च गजाश्च-करिणश्च ते तथोक्ताः, तेषां गजितं, तदेव भीमो-भयकारको नादः-शब्दो यत्र तत् तथोक्तम् । क्व ? आजौ-सङ्ग्रामे ॥३८॥ इदानीं भगवत्पादसेविनां सङ्ग्रामे जयमाह स्तुतिकार:कुन्ताग्रभिन्नगजशोणित[ वारि वाह-वेगावतारतरुणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षाः त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥३९॥ युद्धे-रणे जयं-शत्रुपराभवं लभन्ते-प्राप्नुवन्ति । के ? त्वत्पादपङ्कजवनायिणो-भवच्चरणपद्मखण्डसेविनो नराः, भवच्चरणपद्मसम्यक्सेविनो वा । समाश्रयिण इति पाठः । कीदृशाः सन्त: ? विजितदुर्जयजेयपक्षा:-पराभूतदुःखपराभवनीयशत्रुपक्षाः । कीदृशे युद्धे ? कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतार तरुणातुरयोधभीमे कुन्ताग्रेण भिन्ना-विदारिता ये गजा:-करिणस्तेषां यच्छोणितवारिरक्तजलं तस्य वाह:-प्रवाहस्तस्मिन् वेगावतारेण-जवावतरणेन तरुणा-युवान आतुरा-भीता ये योधाः-सुभटास्तैर्भीमे-भयकारके । अनेनात्यन्तभयकारणत्वं युद्धस्य दर्शितम् ॥३९।। इदानीं समुद्रप्रतिष्ठानां यानपात्रारूढानां भगवच्चिन्तनान्मज्जनभयं न भवतीति दर्शयितुमाह कवि:अम्भोनिधौ क्षुभितभीषणनक्रचक्र पाठीनपीठभयदोल्बणवाडवाग्नौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy