SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ मत्तेभस्य-क्षीबकरिणः कुम्भ:-शिरःस्थलं, तस्माद् गलत्-क्षरद् उज्वलं-निर्मलमच्छं रक्तं-रुधिरं, तेनाक्तानि-अवलिप्तानि यानि मुक्ताफलानि-मौक्तिकानि, तेषां प्रकर:संघातः, तेन भूषितो-ऽलङ्कृतो भूमिभागो-भूप्रदेशो येन स तथोक्तः । अनेन विशेषणेनाऽस्याऽतिशूरत्वादिगुणाः प्रतिपादिताः ॥३५॥ । साम्प्रतं प्रचण्डाग्निदर्पहरत्वेन भगवना(न्ना)म्नो जलरूप[त्व]माहकल्पान्तकालपवनोद्धतवह्निकल्पं दावानलं ज्वलितमुज्वलमुत्कु(त्स्फु)लिङ्गम् । विश्वं जिघत्सुमिव सन्मुखमापतन्तं त्वं ना (त्वन्ना )मकीर्तनजलं स(श )मयत्यशेषम् ॥३६॥ हे जिन ! त्वन्नामकीर्तनजलं-भवदभिधानोच्चारणोदकं स(श)मयतिनिवर्तयति । कं? दावानलं-दावाग्निम् । कीदृशं ? कल्पान्तकालपवनोद्धतवह्नि कल्पं-ज(ल)यकालवातोद्भटाग्निसदृशम् । तथाऽशेष-समस्तम् । तथा ज्वलितंप्रदीप्तं । तथोज्वलं-उद्दीप्तम् । तथोत्स्फुलिङ्ग-उद्गताग्निकणम् । किं कुर्वन्तं ? आपतन्तं-आगच्छन्तम् । कथं ? सन्मुखं-अभिमुखम् । किं कुर्वन्तमिव ? जिघत्सन्त(जिघत्सु)मिव-भक्षितुमिव । किं तत् ? विश्वं-जगत् । अनेन च विशेषणवृन्देणाऽतिप्रचण्डत्वेन केनाप्यप्रतिसंहार्यत्वं अग्नेर्दर्शयति ॥३६।। अधुना क्रोधोद्भटादिगुणस्य सर्पस्य क्रमयुगो(गा)क्रमणेन भगवंना(वन्ना)म्नो नागदमनीत्वमाह स्तवकार: रक्तेक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । ना( आ )क्रामति क्रमयुगेन निरस्तस( श)ङ्कः त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ स नर आक्रामति-आप्नोति-उपमर्दयति । केन ? क्रमयुगेन-पादद्वयेन । कीदृशः सन् ? निरस्तशङ्को-ऽपगतखादनसन्देहः । कमाक्रामति ? फणिनंनागम् । कीदृशं ? रक्तेक्षणं-अरुणनेत्रं, तथा समदकोकिलकण्ठनीलं-मत्तपिकगलकृष्णम् । तथा क्रोधोद्धतं-कोपोद्भटं, तथोत्फणं-उद्गतफणाभोगं, तथाऽऽपतन्तंआगच्छन्तम् । यस्य पुंसः पुरुषस्य हृदि-चित्ते वर्तते । कोऽसौ ? त्वन्नामनागदमनी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy