SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५० - हे जिनेन्द्र ! - तीर्थकरदेव ! तत्र प्रदेशे विबुधा- देवाः पद्मानिकाञ्चनकमलानि परिकल्पयन्ति - रचयन्ति, यत्र - 1 - प्रदेशे तव पादौ चरणौ पदानि - न्यासान् धत्तः-कुरुतः । कीदृशौ ? उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूरवशिखाभिरामौ - उन्निद्र हेमनवपङ्कजपुञ्जस्येव विकसितसौवर्ण (र्णा?) कृतिन् (?) पद्मस्येव कान्तिर्यासां तास्तथोक्ताः ताश्च ताः पर्युल्लसन्नखमयूखशिखाश्चप्रसरन्नखकिरणज्वालाश्च ताः, ताभिरभिरामौ - अभिरमणीयौ अभू(?) तौ तथोक्तौ ॥३२॥ अर्थापेक्षयैकं कुलकम् । यद्वा भिन्नक्रिया भिन्ना एवैते श्लोकाः ॥ " १८ जिनाश्रितानां करिभयाभावमाहात्म्यसूचनेन कवि:श्च्योतन्मदाविलविलोलकपोलमूल-मत्तभ्रमद्भ्रमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥ नो न भवति - उ[प] द्यते । किं तद् ? भयं - त्रासः । केषां ? भवदाश्रितानां-युष्मत्सेवाप्राप्तानाम् । किं कृत्वा ? दृष्ट्वा ऽवलोक्य । कम् ? इभं-करिणम् । किं कुर्वन्तं ? आपतन्तं - आगच्छन्तम् । कीदृशं ? उद्धतंदर्पोद्धुरम् । तथा ऐरावताभं - इन्द्रकरिसमानम् । कथम्भूतं ? श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भ्रमरनादविवृद्धकोपं व्योतन्मदेन-क्षरद्दानजलेन आविलंस्या (श्या) मलं यत् कपोलमूलं - गल्लप्रथमभागः, तस्मिन् मत्तभ्रमद्भ्रमराः क्षरच्चलद्भृङ्गाः, तेषां नादः - शब्द:, तेन विवृद्धो वृद्धिं गतः कोप:- क्रोधो यस्य स यथोक्तस्तम् ||३४|| - भवतः पादाश्रयणस्य फलमाह स्तवकार: मत्तेभकुम्भगलदुज्ज्वलशि ( शो )णिताक्तमुक्ताफलप्रकर भूषितभूमिभागः । बद्धः (द्ध )क्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ हरिणाधिपोऽपि - सिंहोऽपि, आस्तामन्यः कर्यादिः । नाक्रामतिनाश्लिष्यति । कं ? क्रमयुगाचलं - पादपद्मद्वयं गिरिमाश्रितं - आरूढं तत्सम्बद्धम् । कस्य ? ते तव । कीदृशं ? क्रमगतं फालाविषयम् । कीदृश: ? बद्धक्रम:रचितफाल: । तथा मत्तेभकुम्भगलदुज्वलशोणिताक्तमुक्ताफलप्रकर भूषित भूमिभाग: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy