SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ तादृशी । कुतो भवति ? ग्रहगणस्य-शुक्रादिवृन्दस्य । कीदृशः ? विकासिनोऽपिप्रकास(श)वतोऽपि । सूर्यतुल्यो भगवान्, शेषग्रहतुल्या बुद्धादयो देवाः ॥३३।। तामेव दर्शयति भवतः-ते रूपं-मूर्तिवि(वि)भाति-शोभते । कथम् ? नितान्तं-अतिशयेन । कीदृशम् ? अमलं-निर्दोषम् । तथोन्मयूखं-उद्गतकिरणजालं, तथोच्चैरशोकतरुसंश्रितं-- उच्चतरु(र)कंकेक्लिवृक्षासन्नवर्तिनम् । कीदृशं ? स्पष्टोल्लसत्किरणं प्रसरद्व्यक्तरश्मिजालं, अत एवाऽस्ततमोवितानं-निराकृतान्धकारसंघातं । तथा पयोधरपार्श्ववर्ति-मेघनिकटावस्थितम् ॥२८॥ तथा तव-भवतो वपुः-शरीरं विभ्राजते-विशेषेण शोभते । कीदृशं ? कनकावदातं-स्वर्णवर्णम् । क्व स्थितं ? सिंहासने-हरियुक्तभद्रपीठे । कीदृशे ? मणिमयूखशिखाविचित्रे-रत्नानाना(रत्नानां) किरणज्वालाविविधचित्रे । किमिव शोभते ? बिम्बमिव-मण्डलमिव । कस्य ? सहस्ररस्मे(श्मे):-आदित्यस्य ! क्व स्थितम् ? तुङ्गोदयादिशिरसि-उच्चोदयाचलमस्तके । कीदृशम् ? वियद्विलसदंशुलतावितानं-आकास(श)प्रसरत्-किरणवि(व)ल्लिसंघातम् ॥२९।। तव वपुः-भवतः शरीरं विभ्राजते-विविधं राजते । कीदृशं ? कुन्दावदात्तं(त)चलचामरचारुशोभं-कुन्दकुसुमनिर्मलं(ल)चञ्चलव्यजनसो(शो) भनश्रीकम् । तथा कलधौतकान्तं-सुवर्णकमनीयम् । किमिवाभाति ? तद(ट)मिववपु इव (?) । कीदृशं ? उच्चैः-उच्चम् । कस्य ? सुरगिरेः- मेरोः । तथा शातकौम्भं - सुवर्णमयम् । तथा उद्यच्छशाङ्कशुचिनिझरवारिधार-उद्यच्छशाङ्कवद्उद्गच्छच्चन्द्रस्येव शुचयो-निर्मला वारिधारा-जलराजयो यत्र तत् तथोक्तम् । चामरस्य साम्यं दशितम् ॥३०॥ तथा छत्रत्रयं-आतपत्रत्रयी तव-भवतो विभाति-विविधं शोभते । कीदृशं? शशाङ्ककान्तं-चन्द्रनिर्मलम् । तथोच्चैः स्थितं-उपरिव्यवस्थितम् । तथा स्थगितभानुकरप्रतापं-आच्छादितरविकिरणप्रभावं । तथा मुक्ताफलप्रकरजालविवृद्धशोभं-मुक्ताफलप्रकरजालेन मौक्तिकविसरस्तबकेन विशेषेण वृद्धा-वृद्धि गता शोभा-श्रीर्यस्य तत् तथोक्तम् । किं कुर्वन्(त) ? प्रख्यापयत्-प्रकटयत्, त्रिजगत:त्रिभुवनजन्तूनां परमेश्वरत्वं-प्रकृष्टप्रभुत्वं, छत्रत्रयं हि त्रिभुवनप्रभुत्वलक्षणम् ।।३१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy