________________
१६
अनुसन्धान-५०
हे मुनीश ! - गणधरादिसाधुनाथ ! को विस्मयोऽत्र ? - किमत्राश्चर्यम् ? यदि त्वं-भगवान् संश्रितः-संस(से)वितो नाम-अहो ! व्यक्तं वा । कै. ? गुणैरतिशायिज्ञानादिभिः । किम्भूतैः ? अशेषैः-सर्वैर्न कियद्भिः । कया ? निरवकाशतया--निविषयतया, तथाविधोऽन्यो विषयो नास्ति यः समग्रगुणानामाधारः । तथा हे मुनीश ! न कदाचिद्-न कस्मिंश्चित् काले वीक्ष(क्षि)तोऽसिअवलोकितोऽसि । क्व ? स्वप्नान्तरेऽपि-स्वप्नमध्येऽपि, आस्तां जागरमाणैः । कै? दोषैः । कीदृशैः? उपात्तविविधाश्रयजातगर्वैः-प्राप्तनानाप्रकारा-धारोत्पन्नदपैं: !!
इदानीं षड्भिः श्लोकैर्भगवतो विभूतिं वर्णयितुमाह स्तवकार:उच्चैरशोकतरुसंश्रितमुन्मयूख-माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववति ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्रिशिरसीव सहस्त्ररस्मे:( श्मेः) ॥२९॥ कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार-मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त-मुच्चैःस्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयः( य )त् त्रिजगतः परमेश्वरत्वम्
॥३१॥ उन्निद्रहेमनवपङ्कजपुञ्जकान्ति-पर्युल्लसन्नखमयूखशिखाभिरामौ । यादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृग् क् )प्रभा दिनकृतः प्रहतान्धकारा तादृक्कुतो ग्रहगणस्य विकासिनोऽपि
॥३३॥ हे जिनेन्द्र ! - सामान्यकेवलिनाथ ! यथा-येन प्रकारेण तव-भवतो विभूति:- ऐश्वर्यमभूद्-बभूव । कथम् ? इत्थं-अनेन पूर्वप्रकारेण । कस्मिन् ? धर्मोपदेशनविधौ-ज्ञानोत्पत्तिसमननन्तरचतुर्विधधर्मकथनकाले । तथा - तेन प्रकारेण नापरस्य-नान्यस्य बुद्धादेः । अत्रार्थेऽर्थान्तरन्यासमाह-यादृग्-यादृशी प्रभादीप्तिर्दिनकृतो-रवेर्भवति । कीदृशी ? प्रहतान्धकारा-नासि(शि)ततमाः तादृक्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org