________________
डिसेम्बर २००९
धाताऽसि धीर ! शिवमार्गविधेर्विधानाद्
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥
हे भगवन् ! - ऐश्वर्यादिगुणयुक्त ! त्वमेवाऽसि । कोऽसौ ? बुद्धो देवताविशेषः, बुद्ध्यते स्म तत्त्वमित्यन्वर्थत्वात् । कुत: ? बुद्धिबोधाद्-बुद्ध्याकेवलज्ञानेन सकलतत्त्वपरिच्छेदात् । कीदृश !? विबुधाचित ! - स ( श ) क्रादि देवसंघातपूजित ! । तथा त्वं भवान् शङ्करोऽसि - शिवो भवसि । कस्माद् ? भुवनत्रयशङ्करत्वाद्-जगत्त्रयसुखकारित्वात् । तथा हे धीर ! - ज्ञानराजिन् ! धाताश्रेष्ठोऽसि-भवसि त्वम् । कुतः ? शिवमार्गविधेर्विधानाद्-मोक्षपथसृष्टेः करणात्। तथा त्वमेवाऽसि भवसि । कीदृश: ? पुरुषोत्तमः - पुरुषाणां मध्ये उत्तम:-उत्कृष्टः पुरुषोत्तमः सर्वनरप्रधान इत्यर्थः, अन्यत्र विष्णुः । कथम् ? व्यक्तं- स्पष्टम् । पूर्वोक्तगुणैर्देवचतुष्टयमयत्वं दर्शितम् ॥२५॥
इदानीमनेकगुणैः कृत्वा भव ( भगव ) तोऽतिशायित्वख्यापनाय पुनः पुनर्नमस्कारमाह कवि:
कवि:
तुभ्यं नमस्त्रिभुवनार्त्तिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥२६॥ नमो-नमस्कारोऽस्तु । कस्मै ? तुभ्यं भवते । किम्भूताय ? त्रिभुवनार्त्तिहराय-त्रिजगज्जन्तुपीडानाशकाय हे नाथ ! स्वामिन् ! तथा तुभ्यं नमोभवते नमस्कारो भवतु । कीदृशाय ? क्षितितलामलभूषणाय - भूतलनिर्मलाभरणाय । तथा तुभ्यं नमः पूर्ववत् । कीदृशाय ? परमेश्वराय - प्रधानप्रभाव (भवे) । कस्य ? त्रिजगत:-त्रिभुवनस्थजन्तूनां रक्षणादिसमर्थत्वात् । तथा तुभ्यं नमः पूर्ववत् । हे जिन ! - रागादिजेत: !! कीदृशाय ? भवोदधिशोषणाय - संसारसमुद्र [ नि ]र्नाशनाय, आत्मनोऽन्येषां च ||२६||
साम्प्रतं निःशेषगुणाश्रितत्वं दोषनिराकृतत्वं च भगवतो दर्शयितुमाह
१५
-
Jain Education International
को विस्मयोऽत्र यदि नाम गुणैरशेषै
स्त्वं शंस्त्रि (संश्रि) तो निरवकास ( श ) तया मुनीश ! | दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपि न कदाचिद्वी (दपी) क्षितोऽसि ॥२७॥
For Private & Personal Use Only
www.jainelibrary.org