________________
१४
अनुसन्धान-५०
1
मुनयोर्ज (ज) यन्ति-अभिभवन्ति । कम् ? मृत्युं - मरणम्, मरणभाजो न भवन्ति, मोक्षगमनात् । कथमुपलभ्य ? सम्यग् - ज्ञानादिपूर्वकं च । तथा हे मुनीन्द्र ! गणधरादिसाधुनाथ ! नान्यो - नापरोऽस्ति । कोऽसौ ? पन्था - मार्गः । कस्य ? शिवपदस्य- मुक्तिस्थानस्य । कीदृश: ? शिवः - क्षेमो - निरपायमि (इ) त्यर्थः । त्वां विहाय - त्वत्सेवया - त्वद्वचनानुष्ठानेन वा मोक्षावाप्तेः इत्यनेन परदर्शनानि निराकृतानि द्रष्टव्यानि तेषां मोहान्धत्वेनान्यथा वचोधात् ( 2 ) ||२३||
अधुना एकस्यापि भगवतो अनेकत्वं गुणद्वारकं स्तवकार आहत्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं
ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् ।
योगीश्वरं विदितयोगमनेकमेकं
,
ज्ञान:(न) श्व(स्व) रूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
,
"
हे न्ना (ना)थ ! सन्तो- विद्वांसस्त्वां भवन्तं प्रवदन्ति प्रतिपादयन्ति । किम्भूतम् ? ब्रह्माणं- पद्मयोनिं ज्ञानसम्पन्नत्वात् । तथेश्वरं - महेश्वरं, अणिमाद्यैश्वर्ययुक्तत्वात् । तथाऽनन्तं - वासुदेवं, अलब्धपरत्वात् । कीदृशम् ? अनन्त (ङ्ग)केतुं-कामनाशकम् । तथाऽव्ययं - अक्षयम् । तथा विभुं व्यापकं, केवलालोकेन व्याप्तचतुर्दशरज्ज (ज्जु) प्रमाणलोकालोकत्वात् । तथाऽचिन्त्यं भगवत्स्वरूपस्य चिन्तय(यि)तुमशक्यत्वात् । तथाऽऽद्यं धर्मस्याऽऽदौ तत एव प्रवृत्तेः । तथाऽसङ्ख्यं न विद्यते ज्ञानादे: सङ्ख्याऽस्येत्यसङ्ख्यम् एतावत् (द्) ज्ञानं सुखं दर्शनं वा भग[व]तः परिच्छेत्तुमशक्यत्वात् । तथा योगीश्वरं - ध्यानमार्गप्रविष्टनरनायकम् । यतो विदितयोगं - ज्ञान (त) धर्मध्यानादिव्यापारम् । तथाऽनेकं, उक्तक्रमेणाऽनेकरूपत्वात् । तथैकं स्वरूपेणैकरूपत्वात् । विरोधश्चात्रैवमुद्भावनीयो यद्यनेकं कथ [मेक] मनेकत्वात् । [ यद्येकं कथमनेकमेकत्वात् ।] नैका त्वाऽनेक] त्वे हि परस्परविरुद्धे । विरोधश्च पर (रि) हृत एव । तथा ज्ञानस्वरूपं - ज्ञानमयं अस्त्येव, कर्मक्षयेण शरीराभावात् । तथाऽमलं निर्मलं, रागादिमलरहितत्वात्
113811
Jain Education International
1
इदानीं पुरुषचतुष्टयरूपत्वं तद्गुणयोगेन भगवतो दर्शयितुमाहबुद्धस्त्वमेव विबुद्धा ( धा ) र्चित ! बुद्धिबोधात् त्वं शङ्करोऽषि ( स ) भुवनत्रयशङ्करत्वात् ।
For Private & Personal Use Only
www.jainelibrary.org