SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ भवता-त्वया । कस्याम् ? भुवि-पृथिव्याम् । येन भवद्वीक्षणेन-करणेन हेतुना वा नान्यो-ना[परो] मतो(नो)-मानसं हरति-रञ्जयति । क्व ? भवान्तरेऽपि । आस्तामिह जनम्नि(न्मनि), जन्मान्तरेऽपि । अनेन भगवति दृष्टे सति अन्यो न चित्ते विशति तथाविधगुणाभावादिति दर्शितम् ।।२१।। साम्प्रतं सर्वजननीपुत्रातिशायित्वं भगवतो वर्णयतिस्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्त्ररस्मि( शिम) प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ जनयन्ति-प्रसवन्ति । कानि ? स्त्रीणां शतानि-बढ्यो योषितः । कान् ? पुत्रान्-सूनून् । कियतः ? शतश:-अनेकशतानि । केवलं त्वदुपमंभवत्समानं सुतं-पुत्रं न प्रसूता-न जनितवती । काऽसौ ? जननी-माता । किम्भूता? अन्या-मरुदेव्यपरा । अत्रार्थेऽर्थान्तरन्यासमाह-सर्वाः-सकला दिशा:आशा दधति-बिभ्रति । कानि ? भानि-नक्षत्राणि । सहस्ररस्मि(शिम)-आदित्यं पुनः प्राच्येव-पूर्वैव दिग्-आसा(शा) जनयति-प्रसवति, नाऽन्या दिक् । कीदृशम् ? स्फुरदंशुजालं-प्रसरत्किरणनिकरम् । यादृशो रविस्तादृशो भगवान्, यादृशी प्राची तादृशी मरुदेवी भगवतीति ॥२२॥ ___ इदानीं भगवतः परमपुरुषत्वं मृत्युज(अ)यत्वं मुक्तिमार्गत्वं च स्तवकारो वर्णयतित्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः पु( प )रस्तात् । त्वामेव सम्यगुपलभ्य जयंति] मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ मुनयो- जगतस्त्रिकालावस्थावि(वे)दिनस्त्वां-भवन्तं आमनन्ति - प्रतिपादयन्ति-अभ्यस्यन्ति वा । किम्भूतम् ? पुमांसं-पुरुषम् । कीदृशम् ? परम-प्रकृष्टम् । तथाऽऽदित्यवर्ण(ण)रवो... --- - । [उ]पलभ्य-ज्ञात्वा प्राप्य वा १. अन्न टीका त्रुटिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy