________________
१२
अनुसन्धान- ५०
शालिवनानि - कलमव्रीहिसत्कानि क्षेत्राणि तैः । सा (शा) लते - शोभते यः स तथोक्तः, तस्मिन् । शालिवा (व) नानामुपलक्षणत्वाद् यदा किल निष्पन्नसर्वशस्य सम्पन्नो भवति प्रकारान्तरेण जीवलोकः, किं प्रयोजनं जलनम्रमेयैः, सत्कार्यस्य सिद्धत्वात् । एवं किं प्रयोजनं शशि - सूर्याभ्यामिति ||१९||
हरिहरब्रह्मादिदेवेभ्यो भगवतोऽतिशायि ज्ञानं कविर्वर्णयितुमाहज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजो महामणिषु याति यथा महत्त्वं नैवं तु काचस (श)कले किरणाकुलेऽपि
112011
हे भगवन् ! यथा येन प्रकारेण त्वयि भवति यथावस्थितार्थपरिच्छेदको बोधो विभाति- विशेषेण शोभते, गतरागत्वाद् भगवतः नैवं नैव तथा- - तेन प्रकारेण विभाति ज्ञानम् । केषु ? हरिहरादिषु नायकेषु विष्णु-शङ्कर- ब्रह्मादिषु प्रभुषु, सरागत्वान्मोहोपेतत्वाच्च । ज्ञानं च कीदृशं ? कृतावकाशं विहितप्रकाशं धर्माधर्मादेः । न च सरागस्य मूढस्य चाज्ञानं विहितप्रकाशं भवति । अत्रार्थेऽर्थान्तरन्यासमाह-तेजो-धाम यथा येन प्रकारेण महत्त्वंमहिमानं बृहत्त्वं याति - प्राप्नोति । कासु ? (केषु ? ) महामणिषु - महारत्नेषु इन्द्रनीलादिषु तथा कास (श)कलेषु - काचखण्डेषु पुनर्नैवं नैवं (व) तेजो महत्त्वं याति । कीदृशेऽपि ? किरणाकुलेऽपि - रश्मिव्याप्तेऽपि । काचस (श) कलतुल्या हरिहरादयः, कथं तथा ज्ञानं भवेदिति ||२०||
वक्रोक्त्या भगवतो मनोहारित्वं हरिहरादिभ्यः स्तवकारो वर्णयति
मन्ये वरं हरिहरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषति ।
किं वीक्ष (क्षि) तेन भवता भुवि येन नान्यः
Jain Education International
1
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥
अहमेवं मन्ये-जाने हे नाथ स्वामिन् ! वरं प्रधानं हरिहरादयोविष्णुशङ्करादय एव दृष्टा- अवलोकिताः, किं भवता दृष्टेन । यतो येषु हर्यादिषु दृष्टेषु हृदयं - मनः तोषं प्रीतिं उपैति गच्छति । क्व ? त्वयि भवति, त्वय्येव प्रीतिं करोति, नान्यत्रेत्यर्थः । किं प्रयोजनं वीक्ष(क्षि) तेन दृप्टेन 21 केन ?
--
For Private & Personal Use Only
www.jainelibrary.org