SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ न केवलं भवतः स्तवने (स्तवेन ?) सर्वदोषापगमः, कथापि दुरितं हन्ति, एतदाहआस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्त्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाजि ॥९॥ आस्तां-तिष्ठतु तव स्तवनं-स्तोत्रम् । कीदृशम् ? अस्तसमस्तदोषंनिराकृति(त)सकलरागादिदोषगणं, त्वत्संकथाऽपि-भवद्वार्ताऽपि जगतांभुवनवर्त्तिप्राणिनां दुरितानि-दुःकृतानि निहन्ति-विनाशयति । अत्रार्थेऽर्थान्तरन्यासमाह -दूरे-विप्रकृष्टे तिष्ठतु । कोऽसौ ? सहस्रकिरणो-भानुः । कुरुते-विदधाति । कोऽसौ ? प्रभैव-दीप्तिरेव । कानि कुरुते ? जलजानिपद्मानि । कीदृशानि ? विकाशभाञ्जि-विकसितानि । केषु ? पद्माकरेषुपद्मखण्डेषु । रविस्थानीयं स्तवनं, प्रभातुल्या संकथेति ॥९।। यश्च भक्त्या भवन्तं स्तौति स तवैव समो भवतीति दर्शयतिनात्यद्भुतं भुवनभूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याऽऽश्रितं य इह नात्पसमं करोति ? ॥१०॥ तदेतन्नात्यद्भुतं-नाश्चर्यकारि यत् तुल्याः समाना: भवतः-तव भवन्तिजायन्ते । हे भूतनाथ !-प्राणिप्रभो !! क(की)दृशः ? भुवनभूषण !-जगज्जन्तुमण्डन ! किं कुर्वन्तः ? अभिष्टवन्तः-नुवन्तः । कम् ? भवन्तं-त्वाम् । कस्याम् ? भुवि-पृथव्याम् । कैः ? गुणैर्ज्ञानादिभिः । कीदृशैः ? भूतैः-सद्भूतैः सत्यैः । अर्थान्तरन्यासमाह-ननु-अहो !, किंवा यथा (अथवा) किं प्रयोजनम् ?। केन ? तेन-प्रभुणा, य इह जगति [न] करोति-न विदधाति । कम् ? आश्रितम् । कीदृशम् ? आत्मसमं-आत्मसमानम् । कया ? भूत्या-श्रिया ॥१०॥ अतिशयरूपवत्त्वं भगवतो दर्शयितुमाहदृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपजा( या )ति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ? ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy