________________
अनुसन्धान- ५०
चारुश्चासौ चूतकलिकानिकरश्च स तथोक्तः, स एवैकहेतुः - अनन्यकारणं स तथा । तस्य विवरणस्य चारुकलिकानिकरैकहेतुः स तथोक्तः । वसन्ते किल कोकिलनानाशब्दना (न) स्य शोभनाऽऽम्रमञ्जरीसंघात एको हेतुर्यथा तथा मम स्तवनकरणे त्वद्भक्तिरेवैको हेतु ( : ) ||६||
ननु स्तवेन किं फलम् ? अत आह—
त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमु[पै]ति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव सा ( शा ) र्वरमन्धकारम्
॥७॥
शरीरभाजां प्राणिनां पापं - पातकं क्षणाद्- अल्पकालेन क्षयं विनाशं उपैति - गच्छति । कीदृशम् ? भवसन्ततिसन्निबद्धं - जन्मपरम्परोपार्जितम् । केन केन हेतुना करणेन च ? त्वत्संस्तवेन - भवत्संस्तवनेन । उपमामाह- अन्धकारमिवतम इव, यथा तमो विनाशं गच्छति । किम्भूतम् ? सा (शा) वरं - रात्रिसत्कम् । कीदृशम् ? आक्रान्तलोकं - व्याप्तभुवनम्, तथाऽलिनीलं-' - भृङ्गकृष्णम्, तथाऽशेषंसकलम् । कथम् ? आशु शीघ्रम् । किम्भूतं सत् ? सूर्यांशुभिन्नं रविकरविदारितम्
1
॥७॥
६
यतस्तव संस्तवेन क्षणात् क्षयं पापमुपैति, अत आह
I
मत्वेति नाथ ! तव संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥ इदं - वक्ष्यमाणं संस्तवनं संस्तवो मया । कीदृशेनापि ? तनुधियाऽपि - स्तोकबुद्ध्याऽपि आरभ्यते - क्रियते । हे नाथ !- स्वामिन् ! कस्य सम्बन्धि ? तव-भवतः । किं कृत्वा ? मत्वा - ज्ञात्वा । किं तद् ? इति - पूर्वश्लोकभणितम् । कुत आरभ्यते ? तव प्रभावाद्-भवतः सामर्थ्यात्, नाऽऽत्मीया स्तवनकरणशक्तिरस्ति । तच्च चेतो - मनो हरिष्यति रञ्जयिष्यति । केषाम् ? सतां सत्पुरुषाणां सुजनानाम् । अत्र-अत्रार्थेऽर्थान्तरन्यासमाह - ननु - अहो !, उदकबिन्दुः- तोयबिन्दुः मुक्ताफलद्युति- मौक्तिकशोमां उपैति गच्छति । केषु ? नलिनीदलेषु पद्मिनी पत्रेषु स्थितः । यथोदकबिन्दुर्विशिष्टाधारवशेन शोभां प्राप्तवान् तथा मदीयमपि स्तवनं सुजनाधारत्वेन प्रसंशां (शंसां ) प्राप्स्यति ||८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org