________________
डिसेम्बर २००९
सुरगुरुप्रतिमोऽपि - बृहस्पतितुल्योऽपि । कया ? बुद्धया सेमुख्या (शेमुष्या) । हे गुणसमुद्र ! गुणरत्नाकर ! । कीदृशान् ? शशाङ्ककान्तान् चन्द्रवदुज्ज्वलान् । अत्रार्थेऽर्थान्तरन्यासमाह को वा तरीतुं प्लोतुं, अलं समर्थः । नैव कचित् । कम् ? अम्बुनिधि समुद्रम् । काभ्याम् ? भुजाभ्यां - बाहुभ्याम् । कीदृशम् ? कल्पान्तकालपवतोद्धतनक्रचक्रम्, कल्पान्तकाले [आ] युक्षयसमये दर्शितम् ||४||
यद्येवं तर्हि किमर्थं स्तवने प्रवृत्तः ? इत्याह
7
सोऽहं तथापि तव भक्तिवसा (शा) न्मुनीश ! कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः ।
प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं
नाभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥
यद्यपि वक्तुं गुणान् तव न कोऽपि शक्तः तथापि, सोऽहं विगतशक्तिरपिसामर्थ्यहीनोऽपि । हे मुनीश ! - गणधरादिमुनिस्वामिन् ! | प्रवृत्तः प्रवृत्तिमान् । किं ? कर्तुं स्तवं विधातुम् । कस्य ? तव - भवतः । कुतः ? भक्तिवसा (शा) त् आन्तरभावप्रेरितः सन् । अत्रार्थे अर्थान्तरन्यासमाह - किं नाभ्येति ? - आभिमुख्येन किं न गच्छति ?। कोऽसौ ? मृगो- हरिण: । कम् ? मृगेन्द्रं - सिंहम् । गच्छत्येव । कया ? प्रीत्या - प्रणयेन । किं कृत्वा ? अविचार्य - अपर्यालोच्य । किं तद् ? आत्मवीर्यं निजवलम् । किमर्थम् ? परिपालनार्थम् । कस्य ? निजशिशोः आत्मीयबालस्य । यथा मृगो निजवालरक्षणार्थं सिंहाभिमुखं प्रवृत्तः, तथाऽहमपि स्तवं कर्तुं प्रवृत्त इति ॥५॥
नन्वल्पश्रुतस्य स्तवकरणे कथं मुखरता भवति ? इत्याह
अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ त्वद्भक्तिरेव भवत्सेवैव मां मुख (?) मुखरीकुरुते - वाचालयति । कुत: ? बलात्-हठात् कारण[तः ] । कीदृशं माम् ? अल्पश्रुतं - स्वल्पशास्त्रावबोधम् । तथा परिहासधाम - चसूरीस्थानम् । केषाम् ? श्रुतवतां - बहुशास्त्रज्ञानां विदुषाम् । अत्रैवार्थेऽर्धान्तरन्यासमाह यत् कोकिलः यस्मात् पिको मधौ - चैत्रे मधुरं कर्णसुखदं चारु । किल प्रसिद्धौ । विरौति नानाप्रकारं वक्ति । तच्चारुचूतकलिकानिकरैकहेतुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org