SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-५० जनस्य-लोकस्य [चक्षुः]-नेत्रं तोषं-तुष्टिं न उपजा(या)ति- लभते । क्व ? अन्यत्र-त्वत्तोऽपरस्मिन् दृष्टे सति । किं कृत्वा ? दृष्ट्वा-अवलोक्य । कम् ? भवन्तं-त्वाम् । कीदृशम् ? अनिषिध(अनिमेष)विलोकनीयं – निमेषरहितं यथा भवति तथा विलोक्यते यः स तथोक्तः, तम् । अतिरूपत्वाद् भवन्तं पश्यन्तो नेत्रनिमीलनमपि विघ्नकल्पत्वान्न कुर्वन्तीत्यर्थः । अत्रार्थेऽर्थान्तरन्यासमाह- क:-प्राणी इच्छेद्-अभिलषेत् । किं कर्तुम् ? रसितुं-आस्वादयितुम् । किं तत् ? जलं-पानीयम् । किम्भूतम् ? क्षारं-दुष्टास्वादम् । कस्य ? जलनिधे:-समुद्रस्य । किं कृत्वा ? पीत्वा-रसित्वा । किं तत् ? पयो-जलम् । कीदृशम् ? शशर(शशिकर)द्युति-चन्द्ररस्मि(श्मि)निर्मलम् । कस्य ? दुग्धसिन्धोःक्षीरसागरस्य । नैव कश्चिदिच्छेदित्यर्थः ॥११॥ अहमेवं मन्ये-भवद्देहनिःपत्तये येऽणवो व्याधु(पृ)तास्ते तावन्त एव । यत्(त) आहयैः शान्तराग ! रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैककलामभूत !। तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ खलु-निश्चयेन तेऽपि-ते पुन: अणवः- परमाणवः तावन्तः-तत्परिमाणा एव, अन्ये न सन्तीत्यर्थः । यैः परमाणु नस्त्वं-भवान् निर्मापितो-नि:पादितः । कीदृशैः ? रुचिभि:-दीप्तिमद्भिः । हे शान्तराग ! - वीतराग ! । कीदृशो निर्मापित: ? त्रिभुवनैकललामभूतो-जगत्त्रयाद्वितीयतिलक इव भूतशब्द इवार्थे । तावन्त एव । कस्याम् ? पृथिव्यां - भुवि । कथं ज्ञायते ? यद्-यस्माद् नहिनैव अपरं-अन्यद् रूपं-आकृतिः अस्ति-विद्यते । कीदृशम् ? समानं-तुल्यम् । कस्य ? ते - तव ॥ अनेनापि रूपातिशयत्वं भगवतो दर्शितम् ॥१२।। साम्प्रतं भगवतो मुखं वर्णयतिवक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलास( श)कल्पम् ॥१३॥ नि:शेष-समस्तं यथा भवति तथा, निःशेषाणि वा निजितानि-तिरस्कृतानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy