________________
सप्टेम्बर २००९
शब्दसञ्चयः || ॐ नमः ।।
शब्दाम्भोधिसमुल्लास-रसिकं श्रीजिनं सदा । नत्वा शिष्यप्रबोधाय लिख्यते शब्दसञ्चयः ॥१॥ वृक्षादिसोमपादी वाऽग्न्यादिवातप्रमीमुखाः । शम्भ्वादिखलपू: पितृ-मुखाः से रै गोग्लौष नरे६ ॥२॥ तत्र प्रथममकारान्ताः । वृक्षदेवनरव्याघ्र-सिंहशार्दूलवायसाः । प्रासादलगुडस्तम्भ-घटकुञ्जरनायकाः ॥१॥ चक्रवाकशरद्वीप-हंससारसवानराः । मेघनाविकमातङ्ग-मृगमीनतुरङ्गमाः ।।२।। नृपकुम्भजनाः शूद्र-वैश्यक्षत्रियब्राह्मणाः । स्वर्गसूर्यग्रहाचंन्द्र-दैत्यव्यन्तरपन्नगाः ॥३।। क्रोधमानमदा हर्ष-मोहलोभनेखाकराः । केशदेशनरेशाश्च महिषवृषभौ खराः१० ॥४॥ पट्टपादपधर्माश्च कान्तकामजिना'२ नयः । चूतभूतखञ्जरीट-१२चटकोन्दरशूकराः ॥५॥ कोलमर्कटमण्डूक-पारापतपितामहाः ।। एवमन्येऽप्यकारान्ताः शब्दाः पुंसि प्रकीर्तिताः ॥६॥
१. पाठान्तरम् - मुदा - C. 1 २. पा० देवहाहामुनिग्राम-णीसाधुखलपूमुखाः ।
पितृयुजपत्लुक्लाद्याः सेरैगोग्लौरतो नरे ॥ - C. ३. सह इना वर्तते इति से-कामेन - A. । ४. लक्ष्मीः -- A. I
५. चन्द्रः - A. । ६. पुंलिङ्गे - A. ।
७. पा० लकुट० - C. । ८. पा० ०न्द्रादित्य० - C. । ९. पा० नखाः कराः - C. । १०. पा० खरः - C. I
११. पा० त्रिदशधुशयौ धर्म० - C. । १२. पा० ०जना नयः - C. । १३. पा० ०वटकोटम्बुर० - A.B. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org