SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४५ तथा हि- अप्युत्काऽखिलदोषलेशरहितं प्राणातिपाताङ्कितं, स्वीकृत्याऽभयदं कलङ्कयदिदं मिथ्यात्वमुत्सर्पि तत् । विश्वेऽसौ तृणवद्धि(द्वि)वेच्य कृतिनां धुर्यो मुदा वर्द्धया ञ्चक्रेऽहाय कुमारपालनृपवत् सद्धर्मसस्यं स्फुरत् ॥५९॥ [शार्दूल०] यः प्रत्यतिष्ठिपदलं शतशोऽथ बिम्बैः, श्रेयांसबिम्बमसमं सममुन्नताङ्गैः । श्रीमन्महै: करकरिक्षितिभृन्मितेऽब्दे (१६८२), श्रीमुक्तिसागरसदाह्वयवाचकेन्द्रैः ॥६०॥ [वसन्त०] लोकैर्योऽकामि पूर्वं चिदमलगणकैश्चोपदिष्टः प्रसिद्धं, साम्राज्यायाऽभिलाषं वचनमथ मुदा सत्यतां नेतुमेषाम् । बिभ्रद्राज्यं स वर्षे युगवसुरसभू (१६८४) सम्मिते शाजिहानः, ____ कर्यश्वादिप्रसादं प्रणयति सततं शान्तिदासस्य यस्य ॥६१॥ [स्रग्धरा] अस्य कपूरानाम्ना, प्रासूत च रत्नजीति सुतरत्नम् । अपरा पत्नी रसवसुनृपति (१६८६) मितेऽब्दे यसा परमम् ॥६२॥ [आर्या] श्रीमुक्तिसागराख्यान्, वाचकमुख्यान् रसेभनृप(१६८६)सख्ये । __ अब्दे गणाधिपपदे, महामहैः स्थापयामास ||६३|| [आर्या] अस्याऽऽज्ञयाऽतिचतुरो, दानी ज्ञानी च वस्तुपालाख्यः । श्रीराजसागरा इति, विदिताऽभिधयात्मजो भ्रातुः ॥६४॥ [आर्या] सप्ताशीति(८७)मिताब्दसम्भवबलप्रोज्जृम्भमाणप्रथं, नानादेशदरिद्रदीनजनतान्नादिप्रदानायुधैः । सत्रागाररणाङ्गणे निहतवान् दुर्भिक्षविश्वद्विषं, श्रीमद्गुर्जरमण्डनं स जयति श्रीशान्तिदासो भटः ॥६५।। [शार्दूल०] व्योमाङ्कभूप(१६९०)मितविक्रमवत्सरेऽलं, यात्रां विधाय सुकृती विमलाचलस्य । योऽदीदिपत् पुनरपि द्रविणव्ययेन, सत्कृत्य सङ्घमुरुसङ्घपतेर्ललाम ॥६६॥ [वसन्त०] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520545
Book TitleAnusandhan 2008 09 SrNo 45
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy