SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अप्रिल २००७ तद्वक्ष:स्थलकौस्तुभे निजवपुर्दृष्ट्वेति जातभ्रमा, नूनं नाऽहमरेर्मुरस्य हृदि यत् पश्यामि तत्राऽपराम् । पद्मा तेन समौनकोपकलितां - ऽभ्यर्णं समेताऽपि च, प्रास्तप्रीतिभरौं स्म गच्छति शृणु श्रीकर्मचन्द्रप्रभो ! ||३२|| प्राणप्रिये दध्रदिनैः समेते, देशान्तरादर्दर्ति सम्प्रयोगम् । काचित्कुरङ्गीनयना निशायां, मूर्द्धन्यमुञ्चत्कथमाशु पुष्पम् ||३३|| अहं पुष्पवती कान्ता कथमायामि साम्प्रतम् । सम्भोगो नाऽधुना योग्यश्चेति ज्ञापितमेतया ||३४|| काचित्कोविद ! कामिनीकरतलेनाऽऽदाय किञ्चित्फलं, दृष्ट्वा दष्टमिदं खगेन सहसा केनाऽपि किञ्चिततः । शङ्कासकुचिता सती निजकरे सा वै दधौ दर्पणं, निःशङ्काऽथ निराचकार च करात्मौनान्विता तत्फलम् ॥३५॥ विलोक्य बिम्बाफलं शुकेन, दष्टं मृगाक्षी पतिखण्डितौष्ठी । सादृश्यशङ्का धृतदर्पणासीद्, विचिन्त्य तत्कुत्सितमित्यमुञ्चत् ॥३६॥ पत्युः प्रवाससमये मृगशावकाक्ष्या, पृष्ठे (ष्टे?) पुर्रा भवति कर्हि समागमस्ते । स स्वाग्रजं सति पितर्यपि वल्लभायाः, कस्माददर्शयदसौ वद कोविदाऽऽशु ॥३७॥ ज्येष्ठदर्शनतोऽनेन ज्येष्ठमासो निवेदितः । तद्देशमागते वाऽस्मिन् भविष्यति ममागमः ||३८|| काचित्कोपनिरुद्धवागवनतीं -ऽ श्रव्याप्तनेत्राम्बुजा, पत्याऽगो”ऽनलदह्यमानहृदयाऽपास्तै प्रियप्रीतवाक् । कुर्वाणे निजभर्त्तरि क्षुतमथो सा किं ललाटे निजे, चित्रं रत्नकरैर्विचित्रमकरोदाचक्ष्व तत्कारणम् ॥३९॥ कुर्वाणे मम भर्त्तरि क्षुतमहं जीवेति वाक्यं न चे - ज्जल्पान्याशु तदा व्रजत्यवसरश्चेद् वच्मि तैद्यत । १. ब. व्याप्ता । २. ब. ध्वस्त । ३. ब. समूह । ४. तूर्यदभ्रं पुरस्फिरमिति कोश: । ५. ब. याचयति सति । ६. ब. संवेशनं । ७. ब प्रयाण । ८. ब. पुरा योगे भविष्यतार्थता । ९. ब. कदा । १०. ब. प्रतौ वनिता इति पाठः । ११. अ. अपराधः । १२. ब. निराकृता । १३. ब. छिक्का । १४. ब. प्रतिमहं । १५. ब. तर्हि । Jain Education International 83 For Private & Personal Use Only www.jainelibrary.org
SR No.520539
Book TitleAnusandhan 2007 04 SrNo 39
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy