________________
82
अनुसन्धान ३९
निशि वियोगवती युवती गृहे, विधुमवेक्ष्य नभोऽङ्गणमध्यागम्।। [स]खि समानय दर्पणमाशु मे, क्षुरिकया सह चेति कथं जगौ ॥२१॥ दहति मामयमेणभृदातुरां, चरति चाऽलि ! दवीयसि पुष्करे । तदमुकं मुकुरान्तरुपागतं, क्षुरिकया प्रविभेत्तुमिदं जगौ ॥२२॥ मातुर्निजायाः पदपद्मयुग्मं, नत्वोपविष्टः पुर एकदन्तः । पस्पर्श मूर्द्धानमसौ करेण, कस्मादकस्माद् वद कोविदेन्द्र ! ॥२३॥ गौरीपदाम्भोजयुगप्रजाता-रुणत्वरक्तीकृतमीक्ष्य भूतलम् । स्वकुम्भसिन्दूरजोभिशङ्कया, मूर्धानमेष स्पृशति स्म तेन ॥२४॥ सुदति पृच्छति भर्तरि गद्यता-मितरदेशगतोऽभिमतं तव । अहमिह प्रहिणोमि किमादरात्, तदनु साम्भसि किं तिलमक्षिपत् ॥२५॥ तिलकयोर्व्यतिषङ्गवशादसौ, तिलकमेव निवेदयति स्म तम् । इतरथा कथमेव जले तिलं, क्षिपति मन्त्रिप ! कं परनामनि ॥२६॥ कश्चिद् युवा युवतिवक्त्रमवेक्ष्यमाणो,
नाऽहं विलोचनयुगो धृतिभाग् भवामि । एवं विचिन्तयति चेतसि तावदासीत्,
सद्यः स कोविद वदाशु कथं षडक्षः ॥२७॥ स स्वकीयनयनद्वयमध्ये, बिम्बितप्रियतमानयनोऽभूत् । एवमेवं सचिवेश्वर ! सद्य, सोऽभवन्नयनषट्कसमेतः ॥२८॥ तदभिलषितकान्तोपान्ततोऽभ्यागताशु, स्ववगततदभिप्राया" समागत्य दूती । तरुणमरुणरश्मिस्पृष्टपङ्केरुहास्यं, जनवृतमभि दृष्ट्वा सर्षपं तत्करेऽदात् ॥२९॥ शीघ्रमेव समागत्य दूत्याऽथ कृतकृत्यया । सर्षपस्यैव दानेन सिद्धार्थोऽसीति सूचितम् ॥३०॥ अभ्यर्णमभ्येत्य' हरेः स्वभर्तुः, प्रसन्नचित्ता परिरम्भणाय । जगाम कस्माच्चटुवादिनोऽपि, पराङ्मुखी सत्वरमेव पद्मा ॥३१॥ १. ब. खे । २. ब. चन्द्रं । ३. ब. विदारयितुं । ४. ब. सति । ५. ब. इति इति त्वया । ६. ब. ईप्सितं । ७. ब. खयामि (प्रेषयामि?) । ८. ब. अलुकामासः । ९. ब. षड् अक्षीणि यस्य, नयनानां षट्कं तेन । १०. ब. अनेन प्रकारेण । ११. ब. शोभनोऽवगतस्तस्या अभिप्रायो यया सा । १२. ब. समीपमागत्य । १३. ब. चटुचाटुप्रियप्रायं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org