________________
24
अनुसन्धान-३८
यत् तिष्ठति ग्रहगणस्तव पादपीठे
सेवापरो मुकुलिताग्रकरः स्वमौलौ । क्रूरोऽपि युक्तमिह स प्रतिकूलभावा
नाऽऽकामति क्रमयुगाचलसंश्रितं ते ॥३५॥ भूयो भवभ्रमभवं श्रममङ्गभाजां
तृष्णाभवं परमनिर्वृतिनाशनं च ॥ अन्तः परीतमुपतापमलं मलं च
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ नैवाहित: स्फुरति कोपि परोपतापो
___ मूर्छा च नो सविषया प्रकृताऽपकृत्या । नो भोगिभङ्गिजनिता विकृतिश्च तस्य
त्वन्नामनागदमनी हृदि यस्य पुंसः ॥३७॥ कल्याणकेषु भगवन् ! भवतः प्रभूतो
द्भूतप्रभावविभवैर्यदि नारकाणाम् ॥ नश्यत्यशेषमसुखं तदिहोच्यते किं
त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥३८॥ सत्पुण्यचञ्चुचरिता गुणिपक्षदक्षाः
प्रीत्या परागरसरङ्गभृतो मरालीः ।। गर्जद्गुणैः परमहंसपदं पृणन्त
स्त्वद्पादपङ्कजवनायिणो लभन्ते ॥३९॥ रुद्धा विरोधिभिरधीश ! धृती धरेशैः
बद्धाश्च बन्धनशतैश्चलिताश्च चौरैः ॥ प्राप्ता परं व्यसनमप्यभयं पदं हि
त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ रूपं निरूपयितुमीश ! तदीशते ते
केऽनुत्तरा जगदनुत्तररूपिणोऽपि ॥ यस्याग्रतोऽञ्जनमिवापगताङ्गभासो
मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥
प्राग
Jain Education International
. For Private &Personal Use.Only
www.jainelibrary.org