________________
जान्युआरी-2007 लोकस्थितिप्रथितपातकपार्श्ववर्ती(त्ति-)
निःशेषकर्मपटलापगमात् तवात्मा ॥ धत्ते महोऽधिकमहोभ्रमदभ्रमुक्तं
बिम्बं रवेरिव पयोधरपार्श्ववति ॥२८॥ सिंहासने स्थितवतस्तव हेमरत्न
___ रम्ये स्फुरत्युरु विशेषवतीव दीप्तिः ॥ प्रातः प्रभा प्रचुरधातुरसैरुपेता ।
__तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥२९|| नेतर्विभूषति भृशं भवदंसदेशं
हेमोपमं मरकतद्युतिकाऽलकाऽऽली ॥ कल्पद्रुकाननतति: परितः प्रकाम
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ दोषत्रयीविजयिनं त्रिसुपर्वसाल
संस्थं त्रिकालविदमीश ! भवन्तमाशु ॥ रत्नत्रयीगुरुगुणा नृपतित्रिशक्तिः
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ अत्रोचितः कविकृतोऽस्त्युपमोपमेय
भावो न वेदमवधारयितुं धरेयम् ॥ यत्रादधासि चरणौ तदधः सुवर्ण
पद्मानि तत्र बिबुधाः परिकल्पयन्ति ॥३२॥ तीर्थाधिपत्यपदवी भुवनोपकार
सारा यथा तव तथा न भवेत् परेषाम् ॥ सौख्यावह: सवितुरस्त्युदयस्तु यादृक्
तादृक् कुतो ग्रहगणस्य विकाशितोऽपि ॥३३॥ दुर्वार वैरि-करि-केसरि-वारि-मारि
चौरोरगप्रभृतिसम्भवमाभवं ते । निःशेषभीतिहरणौ चरणौ शरण्यौ
दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org