________________
26
मूल दोहा
व्याख्या
सधरो माहात्म्यवान्, तस्य शरणं चरणसेवनं, तस्य भयेनेति, अस्य रक्षिता बलीयान् इति विचिन्त्येति, सधरो पि बलवत्तरोऽपि, अरिः सपत्नो, जन्मनि इति आजीवितान्तं, कलहं न चिन्तयति । तदेव दृष्टान्तेनाऽऽविर्भावयति- (हरे: ) ईश्वरस्य यानं वृषः, पार्वत्या हरिः सिंहः, द्वावपि निर्विरोधवृत्त्या एकस्मिन् सङ्गे तिष्ठतः परं वृषभस्य चेतसि किञ्चिदपि भयं नोत्पद्यते, तद् रक्षितुरेव निदानम् इति भावार्थ: ॥५॥
"
अथ कथमपि विपदं प्राप्य समर्थैः समर्थ एव सेव्यः यथाऽनडुहा महादेवः श्रितस्तथा इति तात्पर्यमाविष्करोति मूल दोहा
-
सकज ! सुकजि सेवहु सकज, न धरहु नीच जगीस । गिरि तपु घन मेटति गुहिर, निफर नदी नव वीस ॥६॥ व्याख्या समर्थाः स्वकार्यसिद्ध्यर्थं समर्थानेव सेवयत परं विपत्प्रतीकाराय । नीचैर्वृत्तिपरेभ्योऽर्थान्नीचजनेभ्यः स्वाशापूरणं मा धारयत । यथा दृष्टान्तमाह गिरेः महापर्वतस्य, तपं ग्रीष्मर्तुजनिततापं, मेघ एव बहु वृष्ट्वोपशामयति, पर नवविंशतिर्नद्यः इति विंशतिहीनं शतद्वयं नदीनामुपरि वहन्ति, तथापि निष्फला भवन्ति इति, अर्थात् तापं न शमयन्ति इति तत्त्वार्थः ॥६॥
अनुसन्धान ३६
सधर सरण डरिं अरि सधर, जनमि न चितवहि जंग | हर - गिरिजा के वृषभ - हरि सुपरि रहइ इक संग ॥५॥
-
अथ च सुपार्श्वसेवया हरवृषभ इव सुष्ठु नैव भवतीति सुवास - वास्तव्यविधिर्वरतर इति दर्शयितुकामो निरूपयति :
Jain Education International
मूल दोहा - सारंग पास सुवास के जिहिँ तहँ बिधि रिधि जोइ । निंबादिक नग मलय के सोरंभ पावहिँ सोइ ||७||
व्याख्या कविः स्वाभिधां स्वात्मोपदेशरूपद्वारेण परोपदिष्ट्या वक्ति कुहचित्, तत्र हे सारंग ! सुवासस्य इति स्वाश्रयस्य (१) सुरभिस्थानस्य (२), द्वयर्थोऽयं शब्दोऽवगन्तव्यः । पार्श्वे समीपे वसनशीलस्येति शेषः, यथा कथञ्चित् प्रकारेण ऋद्धिः सम्पत् सम्पद्यते । यथोदाहरणहेतुना दृ ( द्रढयति मलयपर्वतस्य निम्बादयोऽपि कटुतरतरवः तेऽपि तदेव सौरभ्यं सुगन्धं प्राप्नुवन्ति ।
—
,
For Private & Personal Use Only
www.jainelibrary.org