SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ September-2006 25 चरणशरणागतं बिभीषणं दृष्ट्वा, रावणगढस्य लङ्कानगर्याः राज्यं, तदैव प्रदत्तम् ॥१॥ ___ अथ रावणाय स्वस्त्रियोक्तं - रे ! शठ ! त्वं सीतां मा रक्ष, अनर्थमूलमित्यपि शासनमदं मन्यस्व, स्वयं विनष्टो [भावी च] । अत एव 'मूर्योपदेशो न श्रेयान्' इति वक्तव्यतां विचिन्त्याऽऽह च - मूल दोहा- मति म हारहु मूढ कुं, परगट दे परबोध ! विषधर कुं पय होइ विषु, कठिन उपाय हि क्रोध ॥२॥ व्याख्या - हे सज्जनाः ! मूढाय प्रकटं प्रत्यक्षं प्रतिबोधं दत्त्वा स्वमति मा हारयत इति, कण्ठशोषं मा कुरुत । तद्धेतुमाह - विषधरस्य पयो दुग्धं पीतमितिशेषः, विषमिव भूत्वा कठिनं क्रोधमुत्पादयतीति तात्पर्यम् ॥२॥ यदा प्रतिबोधं प्राप्याऽर्हन्तं भजति, तदा किं स्यात् ? इत्याशङ्किनः शास्ति - मूल दोहा - रुषि करता की राउ कुं अबलुं हरइ-अभिमान । सिररूपी ससि-सूर कुं पकरइ राहु परांन ॥३॥ __व्याख्या - कर्तुरर्थतः परमेश्वरस्य कृपाप्रभावेन अबलोऽपि महादीनोऽपि, राज्ञः सदैश्वर्यस्य अभिमानं हरति गर्वं त्याजयति । तदेव दर्शयति - कबन्धं विना केवलं शिरोरूपी राहुः ग्रहणपर्वदिने शशिनं सूर्यं च, महाबलवानिव ग्रसति इति तत्त्वार्थः ॥३॥ पुनरपिमूल दोहा - रुषि करता की राउ कुं, अबल वहोरहिं अंक । वपुरे वानर बंधि वरु लयउ महागढ लंक ॥४॥ व्याख्या - कर्तुः कृपया अबलाः, राज्ञे कलङ्कं ददति, यथा वराकैनिरैर्बलं बद्ध्वा त्रिभुवनविजयिनो रावणस्य महागढो महादुर्गो लङ्कालक्षणो गृहीतः । इति विचार्यम् ॥४॥ वानराणां रक्षाकरं रामं जेतुमसमर्थस्य रावणस्य शक्तिर्न स्फुरिता, इति विचारमाकलय्याऽथ कथयति वाल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy