SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ September-2006 27 अत एव लोकोक्त्या मलये चन्दनतरुसुरभिणा वायुप्रचारेण निम्ब-करीरादिषु (सुरभि) सम्भवतीति श्रुतमिह प्रसिद्धम् ॥७॥ अथवा यथा निम्बादिभिः सुसंसर्गतो माहात्म्यं प्राप्तं, तथोत्तमकरादिलग्नो निर्बलोऽपि जनः शोभते इति, एतदेवाऽऽहं - ___ मूल दोहा- उत्तम के आदरि अबल, सुन्दर पावइ सोह । ललना के करि लोह की, मुद्रा जनमन मोह ॥८॥ व्याख्या - उत्तमानां आदरेण महत्त्वप्रदानेन अबलोऽपि सर्वप्रकारेण क्षीणोऽपि सुन्दरां जगन्मोहजननीं शोभां प्राप्नोति । अमुमेवार्थं परार्थसंसूचितदृष्टान्तेनोपदर्शयति - यथा ललनायाः विलासिन्याः करे स्थिता लेहस्य मुद्राऽङ्गलीयकं तुच्छं निर्मूल्यं दुर्वर्णमपि सुसङ्गत्या जनानां मनांसि मोहयतिइत्यवधार्यम् ॥८॥ __ अथ पूर्वोक्तदोधके 'सुसङ्गः कार्यः' इत्युक्तं, स च स्वसरलतयैव सम्भवति, न तु स्तब्धवृत्त्या - इति विवेचनमाहमूल दोहा - इक तीखे अरु अतितबध, दरसि उपायहि ढुंग । तिही कुं पतन नजीकतर, तरुणी कुच ज्युं तुंग ॥९॥ व्याख्या - एकतो ये प्रकृत्या तीक्ष्णाः, तथाऽतिस्तब्धाः अनमनशीलाः, पुन आत्मानं दर्शयित्वाऽन्येषां चेतसि वह्निवत् परितापमुत्पादयन्ति; तेषां पतनं अधोभावः स्तोकैरेव दिनैः अवगन्तव्यमित्यध्याहारः । यथा तदेव सूचयति - के इव ? - तरुणीनां तुङ्गा उन्नताः कुचा इव तेऽपि पूर्वोक्तदोषदूषिताश्चिरं नोदयोन्मुखास्तिष्ठन्ति, स्वल्पकालेनैव पतन्तीति भावः ॥९॥ अथ पूर्वोक्ततैक्ष्ण्यादिदोषपरिहारो विवेकवत्ता चैव स्यात्, सा कुत्र भवतीत्याशङ्क्याऽऽहमूल दोहा - पख-भख-चख-रुख जिही पवर, तिहीं तनि तकहु विवेक। पययुग पटंतरि हंस सओ, ओर न पंछी एक ॥१०॥ व्याख्या - येषां एते चत्वारः पदार्थाः प्रवराः श्लाघनीया भवन्ति । के ते १. प्रथमतः पक्षशुद्धिः मातृ(ता)पित्रोः पक्षद्वयं शुभम् । अथ भक्ष्यमाहारो मांस-मद्यादिरहितं विमलमनुच्छिष्टमिति यावत् । तृतीयं चक्षुः कुव्यापारवर्जकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520537
Book TitleAnusandhan 2006 09 SrNo 37
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2006
Total Pages78
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy