________________
अनुसन्धान ३४
सुखत्वादावतिव्याप्तिः, तदपास्त्यै गगनवृत्तीति । आद्यविशेषणोपादाने च, सामानाधिकरण्ये, द्रव्यत्वादावतिव्याप्तिः, वैयधिकरण्ये च सत्तादावतिव्याप्तिः, ततो विशेषेति । तथा चाऽसम्भवः, तव्यावृत्त्यर्थं गुणवृत्तीति । सत्तादावतिव्याप्तिव्यवच्छेदकृते रूपावृत्तीति । शेषं .२५सुगमम् । इति शब्दत्वलक्षणम् ॥१६॥
ऊर्ध्वदेशेत्यादि । ऊर्ध्वदेशेन यः क्रियावतो द्रव्यस्य संयोगस्तस्य हेतु:-कारणं या क्रिया-कर्म, तत्र वृत्तिरस्याः सा तथा । तादृशी कर्मत्वस्याऽवान्तरजातिरुत्क्षेपणत्वमित्यर्थः । तत्र जातिरुत्क्षेपणत्वमित्युक्ते सत्तार्दीवतिव्याप्तिः, अतोऽवान्तरेति । तथा च द्रव्यत्वादावतिव्याप्तिः, ततः कर्मत्वेति । अपक्षेपणत्वादावतिव्याप्तिव्यवच्छेदार्थं ऊर्ध्वदेशेत्यादि निगदितम् । कर्मत्वपदाभावे च कर्मत्वादावतिप्रसङ्गः, तद्भङ्गाय कर्मत्वेति । अवान्तरपदाभावे च, वैयधिकरण्ये चाऽसम्भवः, सामानाधिकरण्ये तु कर्मत्वजातावतिव्याप्तिः, अतस्तदुपादानम् । पुनरसम्भवव्यवच्छित्त्यै क्रियावृत्तीति । कर्मत्वावान्तर-विशेषणव्यतिरेके च सत्तादावतिव्याप्तिः, अतस्तदादानम् । शेषं सुगमम् । इति उत्क्षेपणत्वलक्षणम्”
॥१७॥
कपिलावृत्तीत्यादि । कपिले नास्ति वृत्तिर्यस्याः सा तथा । सकलसितेषु रूपेषु वृत्तिर्यस्याः सा तथा । ईदृशी रूपत्वस्याऽवान्तरजातिः सितत्वमित्यर्थः ॥ तत्र जातिः सितत्वमित्युक्ते सत्तायामतिव्याप्तिः, अतोऽवान्तरेति । तावत्युक्ते च द्रव्यत्वादावतिप्रसङ्गः, तदपोहकृते रूपत्वेति । नीलत्वादावतिव्याप्तिनिरासाय सितवृत्तीति । शुक्लतरत्वादौ प्रसङ्गवारणाय सकलेति । कपिलाऽवृत्तीति पदं तु व्यर्थमिव प्रतिभाति, व्यवच्छेद्याभावात् । तत्पदाङ्गीकरणे च रूपत्वाऽवान्तरेतिपदस्य वैयर्थ्यापातादिति हृद्यवधार्यमेवाऽऽर्यवयः । सकलसितवृत्तिजाति: सितत्वमित्युक्ते पुनः सत्ता-गुणत्वादावतिव्याप्तिः, इत्यतो रूपत्वावान्तरेति । रूपत्वपदाभावे तु रूपत्वादावतिव्याप्तिः, अतस्तदङ्गीकारः । अवान्तरपदव्यतिरेके च लक्षणे प्राग्वदवबोध्यमिति । शेषं तु सुगमं स्वयमेव ज्ञेयमिति सितत्वलक्षणम् ॥१८॥
सत्तर्कयुक्त्युत्कटसिंहनादः, कुवादिदुर्दन्तिघटासु सिंहः । श्रीसूरचन्द्रः स मदीयविद्या-गुरुश्चिरं नन्दतु विज्ञसिंहः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org